SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ 5 उत्तराध्य. बृहद्वृत्तिः ॥२९४॥ E%AC-CGAR एतासु च शुद्धेषणाः पञ्च, जिनकल्पिकापेक्षमेतत् , उक्तं हि तदधिकारे-पंचसु गहो दोसु अभिग्गहो'त्ति, एताश्च कापिली'ज्ञात्वा' अवबुध्य, किमित्याह-'ज्ञानस्य फलं विरति'रिति 'तत्रे'त्येषणासु 'स्थापयेत्' निवेशयेत् , भिक्षत इत्येवं याध्य.८ धर्मा तत्साधुकारी चेति भिक्षुः सन् 'आत्मानं' खं, किमुक्तं भवति ?-अनेषणापरिहारेणैषणाशुद्धमेव गृह्णीयात् , तदपि किमर्थमित्याह-'जायाए'त्ति यात्रायै संयमनिर्वहणनिमित्तं 'घासं'ति ग्रासमेषयेद्-गवेषयेत् , उक्तं हि-"जह सगडक्खोवंगो कीरति भरवहणकारणा णवरं । तह गुणभरवहणत्थं आहारो बंभयारीणं ॥१॥'ति, एषणाशुद्धमप्यादाय कथं भोक्तव्यमिति ग्रासैषणामाह-रसेषु-स्निग्धमधुरादिषु गृद्धो-गृद्धिमान् रसगृद्धो 'न स्यात्' न भवेत्, 'भिक्खाए'त्ति भिक्षादो भिक्षाको वा, अनेन रागपरिहार उक्तः, द्वेषपरिहारोपलक्षणं चैतत् , ततश्च रागद्वेषरहितो भुञ्जीतेत्युक्तं भवति, यदुक्तम्-"रागद्दोस विमुत्तो भुजेज्जा णिजरापेही"ति, सूत्रगर्भार्थः ॥ अमृद्धश्च रसेषु । यत्कुर्यात्तदाहपंताणि चेव सेविजा सीयपिंडं पुराणकुम्मासं । अदु बुक्कसं पुलागं वा जवणट्ठा निसेवए मंथु ॥१२॥ व्याख्या-'प्रान्तानि' नीरसानि, अन्नपानानीति गम्यते, चशब्दादन्तानि च, एवोऽवधारणे, स च भिन्नक्रमः ॥२९४॥ १ पञ्चसु ग्रहो द्वयोरभिग्रह इति । २ यथा शकटाक्षोपाङ्गः क्रियते भारवहनकारणात् नवरम् । तथा गुणभरवहनार्थमाहारो ब्रह्मचारिणाम् । ३ रागद्वेषविमुक्तो भुजीत निर्जराप्रेक्षी । JainEducational For Private & Personal use only
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy