________________
उत्तराध्य. रिति साधुः, पाठान्तरतश्च 'दोषप्रदोषैः' तत्र दोषैः-इहैव मनस्तापादिभिः प्रदोषैश्च-परत्र नरकगत्यादिभिरिति कापिलीबृहद्धृत्तिः सूत्रार्थः ॥ पुनर्यदसौ कृतवांस्तदाह
याध्य. तो नाणदंसणसमग्गो हियनिस्सेसाए य सव्वजीवाणं । तेसिं विमोक्खणट्ठाऍ भासइ मुणिवरो विगयमोहो३ ॥२९॥ है| व्याख्या-'तो'त्ति ततोऽनन्तरं, भाषते मुनिवर इति सम्बन्धः, सच कीदृग ?-ज्ञायतेऽनेन विशेषात्मना वस्त्विति ।
ज्ञानं, दृश्यतेऽनेन सामान्यरूपेण वस्त्विति दर्शनं, ताभ्यां प्रस्तावात् केवलाभ्यां समग्रः-समन्वितः, यदिवा प्राकृतत्वात्समग्रे-परिपूर्ण ज्ञानदर्शने यस्यासौ समग्रज्ञानदर्शनः, किमर्थमसौ भापत इत्याह-हियणिस्सेसाए' इति सूत्रत्वात् हितः-पथ्यो भावाऽऽरोग्यहेतुत्वात् निःश्रेयसो-मोक्षः, हितश्चासौ निःश्रेयसश्च हितनिःश्रेयसस्तस्मै, यद्वा प्राकृतत्वादेव निश्शेष-समस्तं हितं-सम्यग्ज्ञानादि, तस्यैव तत्त्वतो हितत्वात् , ततो निश्शेषं च तद्धितं च निश्शेषहितं ! तस्मै, कथं नाम निश्शेषहितावाप्तिः स्यादिति, चशब्दो भिन्नक्रमः, तेषामित्यत्र योज्यते, केपाम् ?-'सर्वजीवानाम् ' अशेषप्राणिनां 'तेषां' च पञ्चशतसङ्ख्यचौराणां विमोक्षणम्-अष्टविधकर्मणः पृथकरणं तदेवार्थ:-प्रयोजन विमोक्षणार्थस्तस्मै-तन्निमित्तं, भापते इति वर्तमाननिर्देशः प्राग्वत् , यद्वा-'भवति स नामातीतः प्राप्तो यो नाम,
C ॥२९॥ वर्तमानत्व'मितिवचनात् तस्यापि तदा वर्तमानतैवेति तत्कालत्वस्य विवक्षितत्वान्न दोषः, 'मुनिवरः' मुनिप्रधानः, विगतो-विनष्टो मोहो यस्य यस्माद्वा स तादृक् । इह च विगतमोहवचनेन चारित्रमोहनीयाभावतो यथाख्यात
CRACA-SACRACKCARRC
Jan Ede
For Private & Personal use only
awranrainesbrary.org