________________
॥ व्याख्यातं उरश्रीयाख्यं सप्तममध्ययनं सम्प्रत्यष्टममारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तराध्ययने रसगृद्धे|रपायबहुलत्वमभिधाय तत्त्याग उक्तः, स च निर्लोभस्यैव भवतीति इह निर्लोभत्वमुच्यते, इत्यनेन सम्बन्धेनाया| तस्यास्याध्ययनस्यानुयोगद्वारचर्चा प्राग्वद् यावन्नामनिष्पन्ननिक्षेपे कापिलीयमिति नाम, अतः कपिलनिक्षेपमाहनिक्खेवो कविलंमी चउविहो दुविहो य दवंमि । आगमनोआगमओ नोआगमओ य सो तिविहो २५०
व्याख्या – 'निक्षेपः' न्यासः 'कपिले' कपिलविषयः 'चतुर्विधः' चतुष्प्रकारो नाम स्थापनाद्रव्य भावभेदात्, तत्राद्ये प्रतीते, 'द्विविधः' द्विभेदो भवति 'द्रव्य' इति द्रव्यविषयः, द्वैविध्यमेवाह - आगमतो नोआगमतः, तत्रागमतो ज्ञाताऽनुपयुक्तो नोआगमतश्च स 'त्रिविधः ' त्रिभेद इति गाथार्थः ॥ त्रैविध्यमेवाहजाणगसरीरभविए तवतिरित्ते य सो पुणो तिविहो । एगभविअवद्धाउअ अभिमुहओ नामगोए अ २५१
व्याख्या – कपिलशब्दार्थज्ञशरीरं पश्चात्कृतपर्यायं ज्ञशरीरमित्युच्यते, तदेव द्रव्यकपिलो, 'भविय'त्ति भव्यशरीरं | पुरस्कृत कपिलशब्दार्थज्ञतात्मकपर्यायं द्रव्यकपिलः, तथ्यतिरिक्तश्च स तद्व्यतिरिक्तद्रव्यकपिलः पुनः 'त्रिविधः' त्रिभेदः, त्रैविध्य मेवाह - एकभविको बुद्धायु कोऽभिमुखनामगोत्रश्चेति गाथार्थः ॥ भावकपिलमाहकविला उणामगोयं वेयं तो भावओ भवे कविलो । तत्तो समुट्टियमिणं अज्झयणं काविलिति ॥ २५२ ॥
Jain Education National
For Private & Personal Use Only
ainelibrary.org