SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ यथा मूलच्छेदेन नरकतिर्यक्त्वप्राप्तिः तथा स्वयं सूत्रकृदाह दुहओ गती बालस्स, आवती वहमूलिया । देवत्तं माणुसत्तं च, जं जिए लोलुआसढे ॥ १७ ॥ व्याख्या- 'दुहतो 'ति द्विधा द्विप्रकारा, गम्यत इति गतिः, सा चेह प्रक्रमान्नरकगतिस्तिर्यग्गतिश्च, कस्येत्याह'वालस्य' द्वाभ्यां रागद्वेषाभ्यामाकुलितस्य, 'आवई 'त्ति आगच्छत्यापतति वधः - प्राणिघातः, उपलक्षणत्वान्महारम्भमहापरिग्रहानृतभाषणमायादयश्च मूलं कारणं यस्याः सा वधमूलिका, यदिवा-द्विधा गतिर्वालस्य, भवतीति गम्यते, तत्र च गतस्य 'आवइ'त्ति आपत्, सा च कीदृशीत्याह - वधो - विनाशस्ताडनं वा मूलम् - आदिर्यस्याः सा वधम्|लिका, वधग्रहणाच्छेदभेदातिभारारोपणादिपरिग्रहः, लभन्ते हि प्राणिनो नरक तिर्यक्षु विविधा वधाद्यापदः, किमि - | त्येवम् ?, अत आह— 'देवत्वं' देवभवं 'मानुपत्वं' मनुजभयं 'यद्' यस्मात् 'जितो' हारितो 'लोलयासढे 'त्ति लोलता| पिशितादिलाम्पट्यं तद्योगाज्जन्तुरपि तन्मयत्वख्यापनार्थ लोलतेत्युक्तः, शाठ्ययोगाच्छठः - विश्वस्तजनवञ्चकः, ततो लोलता चासौ शठश्च लोलताशठः, इह च लोलता पञ्चेन्द्रियवधाद्युपलक्षणं, तथा च नरकहेतुत्वाभिधानमेतत्, यदुक्तम्- "महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचेंदियवहेणं जीवा णेरयाउयं णियच्छंति” शठ इत्यनेन तु शाट्यमुक्तं तच्च तिर्यग्गतिहेतुः, उक्तं च – “माया तैर्यग्योनस्ये” ( तत्त्वार्थे अ० ६-सू० १७ ) ति, अतश्चायमाशयः १ महारम्भतया महापरिग्रहतया मांसाहारेण पञ्चेन्द्रियवर्धन जीवा नैरयिकायुर्नियमयन्ति । Jain Education national For Private & Personal Use Only Winelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy