________________
उत्तराध्य.
औरभी
बृहद्वृत्तिः
याध्य. ७
॥२७९॥
| सम्प्रति सूत्रमनुस्रियते-'व्यवहारे' व्यवहारविषया 'उपमा' सादृश्यं 'एषा' अनन्तरोक्ता ‘एवं' वक्ष्यमाणन्यायेन | |'धर्मे' धर्मविषयामेवोपमा 'विजानीत' अवबुध्यध्वमिति सूत्रार्थः ॥ कथमित्याह
माणुसत्तं भवे मूलं, लाभो देवगई भवे । मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं ॥१६॥ व्याख्या-'मानुषत्वं' मनुजत्वं भवेत्' स्यात् मूलमिव मूलं, स्वर्गापवर्गात्मकतदुत्तरोत्तरलाभहेतुतया, तथा लाभ इव लाभः मनुजगत्यपेक्षया विषयसुखादिभिर्विशिष्टत्वात् 'देवगतिः' देवत्वावाप्सिर्भवेत् , एवं च स्थिते किमित्याह-'मूलच्छेदेन' मानुषत्वगतिहान्यात्मकेन 'जीवानां प्राणिनां 'नरकतिर्यक्त्वं' नरकत्वं तिर्यक्त्वं च तद्वत्यात्मकं 'ध्रुवं' निश्चितम् , इहापि सम्प्रदायः-ति न्नि संसारिणो सत्ता माणुस्सेसु आयाता, तत्थेगो मद्दवजवादिगुणसंपन्नो मज्झिमारंभपरिग्गहजुत्तो कालं काऊण काहावणसहस्समूलत्थाणीयं तमेव माणुस्सत्तं पडिलहति, वितितो पुण सम्मइंसणचरित्तगुणसुपरिट्रितो सरागसंजमेण लद्धलाभवणिय इव देवेसु उववन्नो, ततितो पुण हिंसे बाले मुसावाती इचेतेहिं पुवभणितेहिं सावजजोगेहिं वट्टिउंछिन्नमूलवणिय इव णारगेसु तिरिएसु वा उववजतित्ति सूत्रार्थः॥
१ त्रयः संसारिणः सत्त्वा मानुषेष्वायाताः, तत्रैको मार्दवार्जवादिगुणसंपन्नो मध्यमारम्भपरिग्रहयुक्तः कालं कृत्वा कार्षापणसहस्रमूलस्था|नीयं तदेव मानुषत्वं प्रतिलभते, द्वितीयः पुनः सम्यग्दर्शनचारित्रगुणसुपरिस्थितः सरागसंयमेन लब्धलाभवणिगिव देवेपूत्पन्नः, तृतीयः पुनर्हिस्रो बालो मृषावादीयेतैः पूर्वभणितैः सावद्ययोगैः वर्तित्वा छिन्नमूलवणिगिव नारकेषु तिर्यक्षु वोत्पद्यते इति ।
॥२७९॥
Jain Educati
o nal
For Privale & Personal Use Only
www.jainelibrary.org