________________
उत्तराध्य.
बृहद्धृत्तिः ॥२८॥
|-यतोऽयं बालो लोलताशठः ततो नरकगतितिर्यग्गतिनिबन्धनाभ्यां लोलताशठत्वाभ्यां देवत्वमनुजत्वे हारितस्या-४ औरभीस्योक्तरूपा द्विविधैव गतिः सम्भवति, एवं च मूलच्छेदेन जीवानां नरकतिर्यक्त्वमुच्यते, मूलं हि मनुष्यत्वं लाभश्च | देवत्वम् , उभयोरपि तयोहारणादिति सूत्रार्थः ॥ पुनर्मूलच्छेदमेव समर्थयितुमाह
याध्य. ७ ततो जिए सई होइ, दुविहं दुग्गतिं गते । दुल्लहा तस्स उम्मज्जा, अडाए सुचिरादवि ॥१८॥ व्याख्या-ततः' देवत्वमानुपत्वजयनात् तको वा बालः 'जिय'त्ति व्यवच्छेदफलत्वाद्वाक्यस्य जित एव 'सतित्ति सदा भवति "द्विविधां' नारकतिर्यग्भेदां, दुनिन्दायां, दुष्टा-निन्दिता गतिर्दुर्गतिस्तां गतः' प्राप्तः, सदाजितत्वमेवाभिव्यनक्ति-'दुर्लभाः' दुष्प्रापाः 'तस्येति देवमनुजवे हारितवतो बालस्य 'उम्मजत्ति सूत्रत्वादुन्मजनमुन्मजा-नरकतिर्यग्गतिनिर्गमनात्मिका, स्यादेतत्-चिरतरकालेनोन्मजाऽस्य भविष्यति, अत आह-अद्धायां' काले अर्थादागामिन्यां, किं स्वल्पायामेव १, इत्याह-सुचिरादपीत्यद्धाशब्देनैव कालाभिधानात् सुचिराच्छब्दः प्रभूतत्वमेवाह, ततोऽयमर्थः-अनागताद्धायां प्रभूतायामपि, बाहुल्याचेत्थमुक्तम् , अन्यथा हि केचिदेकभवेनैव तत उद्धृत्य मुक्तिमप्यामुवन्त्येवेति सूत्रार्थः ॥ इत्थं पश्चानुपूर्व्यपि व्याख्याङ्गमिति पश्चादुक्तेऽपि मूलहारिण्युपनय- 8/॥२०॥
ये मूलप्रवेशिन्यभिधातुमाह-यद्वा विपक्षापायपरिज्ञानतयैवोपादेये प्रवृत्तिरिति पश्चादुक्तमपि मूलहारिणमादावुपदश्यैतदाह
मुपद
Jain Education International
For Privale & Personal use only
www.jainelibrary.org