________________
प्रवर्तते निवर्तते वा, तथा सुशिष्येणा(प्योऽ)प्याकारादिभिराचार्याशयमवगम्य, वचनेनाप्रेरित एव प्रवर्तते, मा. भूदन्यथाऽऽरोहकस्येव गुरोरायास इति सूत्रार्थः ॥ १२ ॥ अत्र च नियुक्तिकृत् गल्याकीर्णौ व्याचिख्यासुः 'तत्त्वमेदपर्यायैर्व्याख्या' इति तत्पर्यायानाहगंडी गली मराली अस्से गोणे य हुंति एगट्टा । आइन्ने य विणीए य भदए वावि एगट्टा ॥ ६४॥ | | व्याख्या-गच्छति प्रेरितः प्रतिपथादिना डीयते च कर्दमानो विहायोगमनेनेति गण्डिः, गिलत्येव केवलं न तुर वहति गच्छति वेति गलिः, म्रियत इव शकटादौ योजितो राति च-ददाति लत्तादि लीयते च भुवि पतनेनेति मरालिः, अमी च 'अश्थे' तुरगे ‘गोणे च' बलीव भवन्ति 'एकार्थाः' एकोऽर्थो-दुष्टतालक्षणः अनन्तरोक्तनीत्या प्रवृत्तिनिमित्तभेदेऽप्यमीषामितिकृत्वा । 'आकीर्यते' व्याप्यते विनयादिभिर्गुणैरिति आकीर्णः 'चः' पूरणे, विशेषेण नीतः-प्रापितः प्रेरकचित्तानुवर्तनादिभिः श्लाघादीति विनीतः, भाति-शोभते खगुणैर्ददाति च प्रेरयितुश्चित्तनिव-13 तिमिति भद्रः स एव भद्रकः, चशब्द इहाप्यचे गोणे चेति विषयानुवृत्त्यर्थः, अपिशब्द इह पूर्वत्र चानुक्तपर्यायान्तरसमुच्चयार्थः, 'एकार्था' इति प्राग्वदिति गाथार्थः ॥ ६४ ॥ न चैवं गल्याकीर्णतुल्यशिष्ययोर्गुरोरायासजननाजनने एव गुणदोषौ, किन्तु गलिसदृशस्थानाश्रवत्वादेराकीर्णतुल्यस्य चित्तानुगतत्वादेः सम्भव इति तद्वशतः कोपनप्रसादने अपि, अत एवाह
उत्तराध्य. ९
For Privale & Personal Use Only
rebrary