SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥ ४९ ॥ अणासवा थूलवया कुसीला मिउंपि चंडं पकरंति सीसा । चित्ताणुया लहु दक्खोववेया पसायएते हु दुरासयपि ॥ १३ ॥ (सूत्रम्) व्याख्या- 'अणासव' त्ति आ - समन्तात् शृण्वन्ति - गुरुवचनमाकर्णयन्तीत्याश्रवा न तथा प्रतिभासाविषयस्य तस्याश्रवणादनाश्रवाः, पठ्यते च - 'अणासुण' त्ति अस्यार्थः स एव स्थूलम् - अनिपुणं यतस्ततो भाषितया वचो येषां ते स्थूलवचसः 'कुशीला' इति दुःशीलाः, 'मृदुमपि' अकोपनमपि कोमलालापिनमपि वा 'चण्डं' कोपनं परुषभापिणं वा 'प्रकुर्वन्ति' प्रकर्षेण विदधति 'शिष्याः' विनेयाः, सम्भवति ह्येवंविधशिष्यानुशासनाय पुनः पुनर्वचनात्मकं | खेदमनुभवतो मृदोरपि गुरोः कोप इति । इत्थं गलितुल्यस्य दोषमभिधायेतरस्य गुणमाह - चित्तं - हृदयं प्रक्रमात् | प्रेरक स्यानुगच्छन्ति - कसपाताननपेक्ष्य जात्याश्ववदनुवर्तयन्तीति चित्तानुगाः 'लघु' शीघ्रमेव दक्षस्य भावो दाक्ष्यम् - अविलम्बितकारित्वं तेन 'उववेय' त्ति उपपेता-युक्ता दाक्ष्योपपेताः 'प्रसादयेयुः' सप्रसादं कुर्युः 'ते' इति शिष्याः, 'हुः' पुनरर्थः, दुःखेनाऽऽश्रयन्ति तमतिकोपनत्वादिभिरिति दुराश्रयस्तमपि प्रक्रमाद्दुरुं, किं पुनरनुत्कटकपायमित्यपि - शब्दार्थः । अत्रोदाहरणं चण्डरुद्राचार्यशिष्यः, तत्र च सम्प्रदायः - अवंतीजणवए उज्जेणीणयरीए ण्हवणुजाणे १ अवन्तीजनपदे उज्जयिनीनगर्यां रूपनोद्याने साधवः समवसृताः, तेषां सकाशे एको युवा उदात्तवेषो वयस्यसहित उपागतः, स तान् Jain Education National For Private & Personal Use Only अध्ययनम् १ ॥ ४९ ॥ inelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy