________________
उत्तराध्य. कजं च उज्जुयं भणति । तं तह आलोएजा मायामयविप्पमुक्को उ॥१॥' इत्याद्यागममनुस्मरन् कथञ्चित् परैः अध्ययनम्
प्रतीतमप्रतीतं वा मनःशल्यं यथावदालोचयेत्, ततश्चानेनान्तरतपोऽन्तर्गताऽऽलोचनाख्यप्रायश्चित्तभेदाभिधावृहातनम् , अनेन च शेषतपोभेदानामप्युपलक्षितत्वात् तपोविनयमाह इति सूत्रार्थः ॥ ११॥ इहैवं पुनः पुनरुपदेशश्रव-15 ॥४८॥
णादू यदैव गुरोरुपदेशस्तदैव प्रवर्तितव्यं निवर्तयितव्यं चेति स्यादाशङ्का, तदपनोदायाह___मा गलियस्सेव कसं, वयणमिच्छे पुणो पुणो। कसं व दट्टमाइन्ने, पावगं परिवजए ॥१२॥ (सूत्रम्)
व्याख्या-'मा' निषेधे, गलि:-अविनीतः, स चासावश्वश्च गल्यश्वः स इव, कशतीति कशस्तम् , उपलक्षणत्वात् कशप्रहारं, 'वचनं' प्रवृत्तिनिवृत्तिविषयमुपदेशं, प्रस्तावाद्गुरूणाम्, 'इच्छेत्' अभिलषेत्, 'पुनः पुनः' वारं वारं, कोऽभिप्रायः?-यथा गल्यश्वो दुर्विनीततया न पुनः पुनः कशप्रहारं विना प्रवर्तते निवर्त्तते वा, नैवं भवताऽपि प्रवृत्तिनिवृत्त्योः पुनः पुनर्गुरुवचनमपेक्षणीयं, किन्तु 'कसं व दट्ठमाइण्णे'त्ति इवशब्दस्य भिन्नक्रमत्वात् कशं-चर्मयष्टिं दृष्ट्वाऽऽकीर्णो-विनीतः, स चेह प्रस्तावादश्वः स इव, सूचकत्वात् सूत्रस्य, सुशिष्यो गुरोराकारादि दृष्ट्वा, पापमेव पापकं, गम्यमानत्वादनुष्ठानं 'परिवर्जयेत्' सर्वप्रकारं परिहरेत् , उपलक्षणत्वादितरचानुतिष्ठेत् , पठन्ति च-पावगं पडिवजई' त्ति तत्र च पुनातीति पावकं-शुभमनुष्ठानं 'प्रतिपद्येत' अङ्गीकुर्यात् , इहापि प्राग्वदितरत् परिहरेत् , किमुक्तं भवति ?-यथाऽऽकीर्णोऽश्वः कशग्रहणादिनाऽऽरोहकाभिप्रायमुपलभ्य कशेनाताडित एव तदभिप्रायानुरूपं
।
४८
P
ainelibrary.org
For Private & Personal Use Only
JainEducation