SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ARROSAROSAROSAROKAR आद्यपादोत्तरव्याख्यानद्वयेन तु कायगुप्तिरपि, एताश्च चारित्रान्तर्गता एव, यदुक्तम्-"पणिहाणजोगजुत्तो पंचहि समितीहि तिहिं गुत्तीहि । एस चरित्तायारो अट्टविहो होइ णायचो ॥ १ ॥" न च चारित्राचारस्तत्त्वतश्चरित्रविनयादतिरिच्यते इति देशतस्तस्याप्यनेनाभिधानमिति सूत्रार्थः ॥ १०॥ इत्थमकृत्यनिषेधः कृत्यविधिश्वोपदिष्टः, कदाचिदेतद्विपर्ययसम्भवे च किं करणीयमित्याहआहच्च चंडालियं कटु, न निण्हविज्ज कण्हुइ । कडं कडंति भासिज्जा, अकडं नो कडंति य॥११॥ (सूत्रम्)। __ व्याख्या-'आहत्य' कदाचित् चण्डालीकं च चाण्डालिकं चोक्तरूपं यद्वा चण्डश्चालीकं च चण्डालीक 'कृत्वा' विधाय 'न निन्हुवीत' न कृतमेवेति नापलपेत्, कदाचिदपि, यदा परैरुपलक्षितो यदा वा नोपलक्षित-13 स्तदापीत्यर्थः, किं तर्हि कुर्यादित्याह- कृतं' विहितं चाण्डालिकादि 'कृतमिति' इति कृतमेव, न भयलजादिभिरकतमपि 'भाषेत' ब्रूयात् , 'अकृतं तदेवाविहितं 'नो कृतमिति' अकृतमेव भाषेत, न तु मायोपरोधादिना कृतमपि, अन्यथा मृषावादादिदोषसम्भवात्, उपलक्षणत्वाचाय बह्वनालपनकालाध्ययनादिविपर्ययसम्भवेऽप्येतदेव कृत्यम् , इदं चात्राकूतं-कथञ्चिदतिचारसम्भवे लजाद्यकुर्वन् वयं गुरुसमीपमागत्य-'जह बालो जंपंतो कजम| १ प्रणिधानयोगयुक्तः पञ्चभिः समितिभिस्तिसृमिर्गुप्तिभिः । एष चारित्राचारोऽष्टविधो भवति ज्ञातव्यः ॥ १॥ २ यथा बालो जल्पन् कार्यमकार्य च ऋजुकं भणति । तत् तथाऽऽलोचयेत् मायामदविप्रमुक्तस्तु ॥ १॥ AKKKK*六六六六六六 JainEducatiN For Private & Personal Use Only nuriainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy