________________
अध्ययनम्
उत्तराध्य. तत्वात्संसर्ग, हसनं हासस्तं, क्रीडां च अन्ताक्षरिकाप्रहेलिकादानादिजनितां च ‘वर्जयेत्' परिहरेत् सर्वेषामप्येषा बृहद्वृत्तिः
विशिष्टशिक्षाक्षितिहेतुत्वात् लोकागमविरुद्धत्वाचेति सूत्रार्थः ॥ ९॥ पुनरन्यथा विनयमाह॥४७॥
मा य चंडालियं कासी, बहुयं मा य आलवे। कालेण य अहिजित्ता, तत्तो झाइज्ज इक्कओ॥१०॥(सूत्रम्)
व्याख्या-'मा' निषेधे 'चः' समुच्चये, चण्डः-क्रोधस्तद्वशादलीकम्-अनृतभाषणं चण्डालीकं, भयालीकाद्युपलक्षणमेतत् , यद्वा-चण्डेनाऽऽलमस्य चण्डेन वा कलितश्चण्डालः, स चातिक्रूरत्वाञ्चण्डालजातिस्तस्मिन् भवं चाण्डालिकं कर्मेति गम्यते, अथवा अचण्ड ! सौम्य ! अलीकम्-अन्यथात्वविधानादिभिरसत्यं, गुरुवचनमागमं
चेति गम्यते, 'मा कार्षीः' मा विधाः, भगवदुद्दिष्टतिलोत्पाटकखेच्छालापिगोशालकवत् , बह्येव बहुकम्-अपरिमित ४ामालजालरूपं 'माच' इति प्राग्वत्, आङिति-व्यादिकथाऽभिव्याप्त्या लपेत्-भाषेत, बह्वालापनात् ध्यानाध्यय
नक्षितिवातक्षोभादिसम्भवात् , किं पुनः कुर्यादित्याह-कालः अध्ययनाद्यवसरः प्रथमपौरुष्यादिस्तेन, 'चः' पुन||रर्थे, 'अधीत्य' पठित्वा, प्रच्छनाधुपलक्षणमेतत् , 'ततः' अध्ययनात् , अनन्तरमिति गम्यते, 'ध्यायेत्' चिन्तयेत् , 'एकक' इति भावतो रागद्वेपादिसाहित्यरहितः, द्रव्यतस्तु विविक्तशय्यादिसंस्थः, इत्थं हि चाण्डालिककरणाद्यनुस्थानमधीतार्थस्थिरीकरणं च कृतं भवतीति भावः । इह च पादत्रयेण साक्षाद्वारगुप्तिरुक्ता, ध्यायेदित्यनेन मनोगुप्तिः,
॥४७॥
Jain Education A
nal
For Private & Personal Use Only
H
inelibrary.org