SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. ८ Jain Educatio संयोगस्तु तथाऽन्यथा च तत्र परमाणु संयोगस्तथा प्रदेशादिसंयोगस्तु प्रायोऽन्यथेति युक्त एव तयोर्भेदः, एवं तर्हि परमाणु संयोगस्य संयुक्तकसंयोगादभेदोऽस्तूभयोरपि एकस्कन्धताऽऽपन्नद्रव्यविषयत्वात्, अयमपि न दोषः, यतो | निष्पाद्यमानविषय इतरेतरसंयोगः, परिमण्डलादिसंस्थितद्रव्यस्य तेनैव (वि) निष्पाद्यमानत्वात्, संयुक्तसंयोगस्तु प्रायो निष्पन्नद्रव्य विषयः, निष्पन्नं हि मूलादिरूपेण वृक्षादिद्रव्यं कन्दादिना युज्यते, इत्यस्त्यनयोर्विशेष इति गाथार्थः | ॥ ६१ ॥ इत्थं सम्बन्धनसंयोगः खरूपत उक्तः, सम्प्रति तस्यैव फलतः प्ररूपणापूर्वकं विप्रमुक्तस्येति प्रकृतसूत्रपदं व्याख्यानयन् यथा ततो विप्रमुक्ता भवन्ति यच्च तेषां फलं तदाह संबंध संजोगो संसाराओ अणुत्तरणवासो । तं छित्तु विप्पमुक्का माइपिइसुआइ ये हवंति ॥ ६२ ॥ व्याख्या—'सम्बन्धनसंयोगः' उक्तरूपः, संसरन्त्यस्मिन् कर्मवशवर्तिजन्तव इति संसारस्तस्मात्, न विद्यते उत्तरणं | - पारगमनमस्मिन् सतीत्यनुत्तरणः, स चासौ वासश्च - अवस्थानमनुत्तरणवासः, अनुत्तरणवासहेतुत्वादायुर्धृतमित्यादिवदनुत्तरणवासः, अथवा 'अनुत्तरणवासो'त्ति आत्मनः पारतन्त्र्यहेतुतया पाशवत् पाशः, ततोऽनुत्तरणश्चासौ पाशश्च अनुत्तरणपाशः, उभयत्र च सापेक्षत्वेऽपि गमकत्वात् समासः, अनेन संसारावस्थितिः पारवश्यं वा सम्बन्धनसंयोगस्यार्थतः फलमुक्तं, 'तम्' एवंविधं सम्बन्धनसंयोगम्, अर्थादौदयिकभावविषयं मात्रादिविषयं च 'छित्त्वा' द्विधा १ टीका- साहू मुक्का तओ तेणं । national For Private & Personal Use Only www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy