________________
ACTRESCENCES
अन्यजन्मनि तेनैवोज्झिता अनयोर्द्वन्द्वे बद्धमुक्ताः, 'माइपितिसुयाइ' त्ति ‘णो जसूशसोर्लोपे' आपत्वाच लोपे दीर्घ इति दीर्घत्वस्याभावे पितृमातृसुतादयः, आदिशब्दाद् भ्रातृभगिन्यादयो, बद्धमुक्ता इत्यत्रापि योज्यते, चशब्दोऽयं । पूर्वश्च समुच्चये, एते च किमित्याह-'भवंति' त्ति जायन्ते, प्राग्वदुभयसम्बन्धनसंयोगः, जीवस्येति गम्यते, इयमत्र भावना-बद्धा देहा मात्रादयश्चात्मरूपाः, तत्र देहात्मनोः क्षीरनीरवदन्योऽन्यानुगतत्वेन मात्रादयश्चात्यन्तस्नेहविषयतयाऽऽत्मवद् रश्यमानत्वेन, मुक्तास्तूभयेऽपि बाह्याः, तत्र देहा आत्मनः पृथग्भूतत्वेन मात्रादयश्च तथाविधस्नेहाविषयतयाऽऽत्मवददृश्यमानत्वेन, अतो देहौत्रादिभिश्च बद्धमुक्तैः स्वखामिभावलक्षणसम्बन्धो जीवस्योभयसम्बन्धनसंयोगः।आह-देहादयो मुक्ताश्च स्वस्वामिविषयाश्चेति विरुद्धमेतत् , एवमेतद् , यदि भावतोऽपि मुक्ताः स्युः, अथ भावतोऽप्यहमेषां स्वामी ममैते स्वमितिभावाभावान्मुक्ता एव ते , नन्वेवमैहिकेष्वप्यमीष्वपरापरोपयोगवत आत्मनो न सततमेवं भावोऽस्तीति कथं तेष्वपि तद्विषयता ?, अथ तेष्वेवं भावाभावेऽपि व्युत्सर्गाकरणतस्तद्विषयत्वम् , एतदिहापि समानं, व्युत्सर्गाकरणत एव तद्विषयत्वस्येहापि विवक्षितत्वादिति गाथार्थः ॥६०॥ इत्थमनेकधा सम्बन्धनसंयोग उक्तः, अयं च कीदृशस्य कस्य भवतीत्याहसंबंधणसंजोगो कसायबहुलस्स होइ जीवस्स । पहुणो वा अपहुस्स व मज्झंति ममजमाणस्स ॥६१ व्याख्या-'सम्बन्धनसंयोगः' उक्तरूपः, कषायाः-क्रोधादयस्तैबहुलस्य-व्याप्तस्य, प्रभूतकषायस्येत्यर्थः, 'भवति'
Sain Educati
o
nal
For Privale & Personal use only
jainelibrary.org