________________
अध्ययनम्
उत्तराध्य. बृहद्वृत्तिः ॥४१॥
प्रतीत्य घटज्ञानं पटं प्रतीत्य पटज्ञानम् एवमादीनि प्रत्ययात् ज्ञानानि भवन्ति, तथा च सति ज्ञानेनात्मद्वारको, ममेदं । ज्ञानमिति प्रत्ययेन परद्वारको, मम ज्ञानस्यायं विषय इति ज्ञानद्वारकत्वात्तस्य, तत उभयविषयत्वादुमयसम्बन्धनसंयोगः। आह-एवं केवलिनोऽप्युभयसंयोग एवेति, अत्रोच्यते, 'निवृत्तिः' इत्युत्तरत्रैवकारस्य भिन्नक्रमत्वानिवृत्तिरेव -सकलावरणक्षयादुत्पत्तिरेव प्रत्ययो जिनस्य, जिनसम्बन्धिज्ञानस्येति गम्यते, इदमाकूतम्-छद्मस्थज्ञानं हि मत्यादिकं| लन्धिरूपतयोत्पन्नमप्युपयोगरूपतायां बाह्यमपि घटादिकमपेक्षते, तथाहि-घटं प्रतीत्य घटज्ञानं पटं प्रतीत्य पटज्ञानं, केवलिनस्तु ज्ञानं लुधिरूपतयोत्पन्नं पुनरुपयोगरूपतां प्रति न बाह्यं घटादिकमपेक्षते, तज्ज्ञानस्योत्पत्तिसमकालमेव सकलातीतानागतदूरान्तरितस्थूलसूक्ष्मार्थयाथात्म्यवेदितयैवोपयोगभावात् , यदुक्तम्-"उभयांवरणाईतो केवलवर
णाणदंसणसहावो । जाणइ पासइ य जिणो सवं णेयं सयाकालं ॥१॥" ततः केवलज्ञानस्य सर्वत्र सततोपयो४ गेन नोपयोगं प्रति बाह्यापेक्षेति निवृत्तिरेव प्रत्ययः, ततो न छद्मस्थज्ञानस्येव प्रत्ययत उभयसंयोगः। आह-उक्त एव
ज्ञानस्योभयसंयोगः, तत् किं पुनरुच्यते ?, सत्यम् , उक्तः स तत्राक्षेप्याक्षेपकभावेन, इह त्वेकस्यापि वस्तुन उपाधिभेदेनानेकसम्बन्धसम्भवख्यापनाय जन्यजनकभावेनोच्यते इति न दोषः । उभयसम्बन्धनसंयोगमेव पुनः खखामिभावनाह-दिह्यन्ते-उपचीयन्ते पुद्गलैरिति देहाः-कायाः ते च बद्धा-इह जन्मनि जीवेन सम्बद्धा मुक्ता
१ उभयावरणातीतः केवलवरज्ञानदर्शनखभावः । जानाति पश्यति च जिनः सर्व ज्ञेयं सदाकालम् ॥ १ ॥
॥४१॥
Jain Education
intona
For Private & Personal use only
Mainelibrary.org