________________
पुत्र इति पितृद्वारेणासावितिकृत्वा तत उभयद्वारकत्वादुभयविषयसंयोग उभयसम्बन्धनसंयोगः, इतिशब्दो मम पितुः पिता मम भ्रातुः पुत्रः मम दासस्य कम्बल इत्येवंप्रकारसम्बन्धान्तरव्यञ्जकान्योलेखसूचकः, अनेन लौकिके खामित्व उभयसम्बन्धनसंयोग उक्तः, लोकोत्तरमेवाह-मम 'कुले' नागेन्द्रादावयं साध्वादिरिति गम्यते, यद्वा कुलमेव कुलकं तस्य, 'चः' समुच्चये योक्ष्यते, ततोऽहमेव अहकम् अभ्यन्तरः 'अस्मि' भवामि, चशब्दादयं च साध्वादिरित्येवंविधोल्लेखद्वयव्यङ्ग्य एषोऽप्युभयसम्बन्धनसंयोग इति वृद्धाः, अत्र हि मच्छब्दवाच्यस्य कुलेन सहात्मद्वारकः खखामिभावसम्बन्धः, कुलान्तर्वर्तिना च साध्वादिना परद्वारको, मम कुलेऽयमिति कुलद्वारकत्वादस्य, ततोऽयमपि प्राग्वदुभयसम्बन्धनसंयोगः, इहापि इतिशब्दोऽयं मम गुरोः साध्वादिरित्यायेवंप्रकारसम्बन्धान्तरव्यञ्जकान्योल्लेखसूचकार्थः, इह चोल्लेखद्वयाभिधानमेकत्राप्यनेकोल्लेखसम्भवख्यापनार्थमिति गाथार्थः ॥ ५९॥ पुनरन्यथा तमेवाहपच्चयओ य बहुविहो निवित्ती पच्चओ जिणस्सेव । देहा य बद्धमुक्का माइपिइसुआइ अ हवंति ॥ ६॥
व्याख्या-प्रतीयतेऽनेनार्थ इति प्रत्ययः-ज्ञानकारणं घटादिः, सर्वथा निरालम्बनज्ञानाभावेन तदविनाभावित्वात् ज्ञानस्य, ततस्तमाश्रित्य, चकारात् ज्ञानतश्च-ज्ञानं चाश्रित्य 'बहुविधः' बहुप्रकारः, प्रक्रमादात्मनो यः संयोगः स उभयसम्बन्धनसंयोगः, तद्बहुत्वं च प्रत्ययानां तद्विशिष्टज्ञानानां च बहुविधत्वात्, तथा च वृद्धाः-घटं|
Jain Educa
national
For Private & Personal use only
N
w .jainelibrary.org