SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ | भिरासेव्यत इति आचार्यः, 'अन्यत्रांपी' तिवचनात् कर्तरि कर्मणि वा कृत्यप्रत्ययः, तथा शासितुं शक्यः शिष्यः पुनाति | | पितुराचारानुवर्तितयाऽऽत्मानमिति पुत्रः पाति- रक्षत्यपत्यमिति पिता स च जनयति - प्रादुर्भावयत्यपत्यमिति जननी सा च भवति बाह्यसम्बन्धन संयोगविषयत्वाद्वाह्य सम्बन्धनसंयोग इति वृद्धाः, इदं च सर्वत्र योज्यं, दोग्धि च केवलं जननीं | स्तन्यार्थमिति दुहिता, ततश्च " दुहितरि धो हिलोपश्च' इतिवचनादादेर्घत्वे हिलोपे च 'उदूत् सुपुष्पोत्सवोत्सुकदुहितृषु" इति वचनात् उत ऊत्त्वे च धूया, सा च चकारत्रयं पूरणे, नियते - पोप्यते भर्त्रेति भार्या पाति-रक्षति तामिति पतिः स्त्यायते धातूनामनेकार्थत्वात् कठिनीभवत्यस्मिन् जलादीति शीतम् उपति - दहति जन्तु - मिति उष्णं तमयति-खेदयति जनलोचनानीति तमः औणादिकोऽसन्, 'उज्ज' त्ति आर्षत्वादुद्द्योतयतीति उद्द्योतः पचादित्वादच् छ्रयति छिनत्ति वाऽऽतपमिति छाया, आ-समन्तात्तपति संतापयति जगदिति आतपः, च| शब्दो राजभृत्याद्यनुक्ताशेषसम्बन्धिसमुच्चये, लक्षणानुपपत्तौ च सर्वत्र नैरुक्तो विधिः, सुपश्च यत्राश्रवणं तत्र प्राग्वलुक्, इदमत्रै दम्पर्यम् - आचार्यः शिष्यादन्यत्वेन वाह्यः, ततो यस्तेन शिष्यस्य संयोगः- शिष्य इत्युक्तिरवश्यमाचार्य| माक्षिपति यस्यायं शिष्य इत्याक्षेप्याक्षेपकभावलक्षणः स वाद्येनेतिकृत्वा वाह्यसम्बन्धनसंयोगः, ततस्तद्विषय आचार्योऽप्युपचारात्तथोच्यते, एवं शिष्योऽप्याचार्यादन्यत्वेन बाह्यः तेनाप्याचार्यस्य यः संयोगः - आचार्य इत्युक्ति१ कृत्यल्युटो बहुलम् इति ३-३-११३ सूत्रोक्तबहुलभावार्थभूतम्. Jain Educational For Private & Personal Use Only v.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy