SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥ ३८ ॥ रवश्यं शिष्यमाक्षिपति यस्यायमाचार्य इत्याक्षेप्याक्षेपकभावरूपः सोऽपि बाह्येनेतिकृत्वा बाह्यसम्बन्धनसंयोगः, ततस्तद्विषयः शिष्योऽप्युपचारात् तथोच्यते, एवं पुत्र पित्रादिद्वयेष्वपि भावनीयं, सर्वत्र सामान्येन परस्पराक्षेप्याक्षेपकभावः सम्बन्धः, विशेषनिरूपणायां त्वाचार्यशिष्य भार्यापतीनामुपकार्योपकारकभावः पितृपुत्रजननीदुहितॄणां | जन्यजनकभावः (ग्रं० १००० ) शीतोष्णादीनां च विरोधः सम्बन्धः, अत एव च विशेषाद् द्रव्यसंयोगत्वेऽप्यस्य | भेदेनोपादानमिति गाथार्थः ॥ ५७ ॥ सम्प्रति संयोगप्रक्रमेऽप्याचार्यशिष्यमूलत्वादनुयोगस्य तयोः स्वरूपमाह - आयरिओ तारिसओ जारिसओ नवरि हुज्ज सो चेव । आयरियस्सवि सीसो सरिसो सवेहिवि गुणेहिं ५८ व्याख्या - आचार्य : ' तादृश:' तथाविधः, यादृशः क इत्याह- याशो 'नवर' मिति यदि परं भवेत् 'स चेव' त्ति चः पूरणे, स एव - आचार्य एव, किमुक्तं भवति ? - आचार्यस्याचार्य एवान्यः सदृशो भवति, न पुनरना - चार्यः, आचार्यगुणानामन्यत्राविद्यमानत्वात्, न ह्याचार्यादन्यः षट्त्रिंशत्सङ्ख्यगणिगुणसमन्वित इहास्ति, तत्समवितत्वे त्वन्याऽपि तत्त्वत आचार्य एवेति । अथ क एते षटूत्रिंशद्गुणाः ?, उच्यन्ते, प्रत्येकं चतुष्प्रकारा अष्टौ गणिसम्पदो द्वात्रिंशत्, तत्र चाचारादिचतुर्विधविनय मीलनात् षट्त्रिंशद्भवन्ति, उक्तं च- " अद्वेविहा गणिसंपइ चउ - ग्गुणा नवरि होंति बत्तीसा । विणओ य चउन्भेओ छत्तीस गुणा हवते ॥ १ ॥ " तत्राष्टौ गणिसम्पद इमा:१ अष्टविधा गणिसंपत् चतुर्गुणा नवरं भवन्ति द्वात्रिंशत् । विनयश्च चतुर्भेदः पट्टिशगुणा भवन्त्येते ॥ १ ॥ Jain Educationtional For Private & Personal Use Only अध्ययनम् १ ॥ ३८ ॥ ainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy