SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥ ३७ ॥ अभिलापसामान्य विषयोऽभिलापसंयोगः, अयं तु सम्बन्धनसंयोगस्य प्रकृतत्वात् तस्य च सकषायजीवसम्बन्धित्वात्, वक्ष्यति हि - " संबंधणसंजोगो कसायबहुलस्स होइ जीवस्स” त्ति, कस्यचिन्नाम्न्यप्यभिष्वङ्गसम्भवादभि| ष्वङ्गहेत्वभिलापविषय एवेति न पौनरुक्त्यं, 'मीसोऽवि य' ति 'अपिः' पुनरर्थे, 'चः' पूरणे, ततो मिश्रविषयत्वान्मिश्रः संम्बन्धनसंयोगः पुनर्ज्ञातव्यः, यः कीदृगित्याह- 'तदुभए' ति प्राग्वत्तदुभयेन - आत्मबाह्य लक्षणेन तदुभयस्मिन् वोक्तरूप एव भवति, यः संयोग इति शेषः, यथा - क्रोधी देवदत्तः क्रोधी कौन्तिको मानी सौराष्ट्रः क्रोधी वासन्तिकः, अत्र क्रोधादिभिरौदयिक भावान्तर्गतत्वेनात्मरूपैर्नामादिभिस्त्वात्मनोऽन्यत्वेन बाह्यरूपैः संयोग इत्युभयसम्बन्धनसंयोग उच्यते । नन्वेवं न कदाचिन्नामादिविकलैरौदयिकादिभिरौदयिका दिरहितैर्वा नामादिभिरात्मनः संयोग इति सर्वदोभयसम्बन्धनसंयोग एव प्राप्तः, सत्यमेतत्, किन्तु वक्तुरभिप्रायवैचित्र्यात्कदाचिदौद यिकादिभिः | कदाचिन्नामादिभिः कदाचित्तदुभयेन संयोगविवक्षेति नात्मपरोभयसम्बन्धनसंयोगत्रयविरोध इति गाथार्थः ॥ ५६ ॥ प्रकारान्तरेण बाह्यसम्बन्धनसंयोगमाह आयरिय सीस पुत्तो पिया य जणणी य होइ धूया य । भज्जा पइ सीउण्हं तमुज्जछायाऽऽयवे चैव ॥ ५७ ॥ व्याख्या - आङित्यभिव्यात्या मर्यादया वा स्वयं पञ्चविधाचारं चरत्याचारयति वा परान् आचर्यते वा मुक्त्यर्थि Jain Education International For Private & Personal Use Only अध्ययनम् १ ॥ ३७ ॥ ainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy