________________
PLASAREA APROGRAMOK
है केवलिसिद्धवसमसेढिएसु सवासु य गईसु ॥१॥" आह-एवं सान्निपातिकेनैवात्मनः सदा संयोगसम्भवात् कथं ।
षड्डिधत्वमात्मसंयोगस्य ?, उच्यते, सहभावित्वेऽपि भावानां यदैकस्य प्राधान्यं विवक्ष्यते तदैकेनाप्यात्मसंयोगसम्भव
इत्यदोष इति गाथार्थः ॥ ५५ ॥ बाह्यसम्बन्धनसंयोगमाहहै नामंमि अखित्तंमि अनायवो बाहिरोय(उ)संजोगो।कालेण बाहिरो खलु मीसोऽवि य तदुभए होइ॥५६॥ । व्याख्या-'नाम्ना' वस्त्वभिधायिध्वनिखभावेन, चकारात् द्रव्येण क्षेत्रेण चाकाशदेशात्मकेन, प्राकृतत्वात् । तृतीयार्थे सप्तमी, प्रकृतत्वात् संयोगः, किमित्याह-ज्ञातव्यः बाह्यविषयत्वाद् 'बाह्यः,' तुः पुनरर्थः 'संयोग' इति सम्बन्धनसंयोगः, 'कालेन' इति चस्य गम्यमानत्वात् कालेन च समयाऽऽवलिकादिना, तत एव संयोगो-बाह्यसम्बन्धनसंयोगः 'खलु' निश्चितं, ज्ञातव्य इति योज्यम, इदमिहैदम्पर्यम्-यः पुरुषादेदेवदत्तादिनाना सम्बन्धोऽयं देवदत्त इत्यादिः द्रव्येण च दण्डीत्यादिः क्षेत्रेणारण्यजो नगरज इत्यादि कालेन दिनजो रजनिज इत्यादि, स सर्वो नामादिभिर्वाधेरेवेति बाह्यः सम्बन्धनसंयोगः, भावेन तु संयोग आत्मसंयोगत्वेनोक्त एव, भवितुरनन्यत्वात् भावस्य, अन्यथा तस्याभावत्वप्रसङ्ग इतीह तस्यानभिधानं, तथा कालेन बाह्य इति च भिन्नवाक्यताकरणं केषाञ्चिन्मतेन कालस्यासत्त्वख्यापना),यद्वा नाम्नि क्षेत्र इति च विषयसप्तम्येव. यो हि येन सह भवति स तद्विषय एवतिकृत्वा । आह-नानोऽप्यभिलापत्वात् तद्विषयोऽपि संयोगोऽभिलापसंयोगः, स चोक्त एवेति कथं न पौनरुक्त्यम् ?, उच्यते,
For Privale & Personal use only
dow.jainelibrary.org