________________
उत्तराध्य. जो सन्निवाइओखलु भावो उदएण मीसिओ होइ । पन्नारससंजोगो सबो सो मीसिओ जोगो ॥५३॥ अध्ययनम् बृहद्वृत्तिः 18 व्याख्या-यः सान्निपातिकः खलु भावः 'उदयेन' औदयिकभावेन 'मिश्रितः' संयुतो भवति, कियत्सङ्ख्य
इत्याह-पञ्चदश संयोगा अस्मिन्निति पञ्चदशसंयोगः सर्वः सः, किमित्याह-आत्मकर्मणोमिश्रत्वात्तदर्पितभावा अप्यो॥३५॥
दयिकसहितौपशमिकादयो मिश्राः, ततस्तद्विषयत्वात्संयोगोऽपि मिश्रः, स एव मिश्रको योगः, प्रक्रमात् सम्बन्धनसंयोगो ज्ञेय इति शेषः, ते च पञ्चदश संयोगा औदयिकममुञ्चता औपशमिकादिपञ्चकस्य विकत्रिकचतुष्कपञ्चकसंयोगतः कार्याः, तत्र चत्वारो द्विकसंयोगाः षट् त्रिकसंयोगाश्चत्वारश्चतुष्कसंयोगा एकः पञ्चकसंयोग एते चमीलिताः पञ्चदश, है भावना तु वक्ष्यमाणेति गाथार्थः ॥ ५३ ॥ पुनरात्मसंयोगादीनेव प्रकारान्तरेणाभिघित्सुः प्रस्तावनामाहबीओऽवि य आएसो अत्ताणे बाहिरे तदुभए य । संजोगो खल्लु भणिओ तं कित्तेऽहं समासेणं ॥५४॥
व्याख्या-द्वितीयोऽपि च न केवलमेक एव इत्यपि शब्दार्थः, चः पूरणे, 'आदेशः' प्रकारः, प्रस्तावात् प्ररूपणीयः, कीरश इत्याह-आत्मनि बाह्ये तदुभयस्मिंश्च, संयोग इति सम्बन्धनसंयोगः, 'खल' निश्चितं 'भणित' उक्तो. गणधरादिभिरिति गम्यते, अनेन च गुरुपारतक्ष्यमाविष्करोति, 'तम्' इति द्वितीयमादेशं 'कीर्तये' संशब्दये' 'वर्त
१ चान्द्रमतेन णिज उभयपदभावात् आत्मनेपदम् ।
25ASHREYSIS
Jain Education
For Privale & Personal Use Only