________________
भावनीयं, 'मिथ्ये' ति भावप्रधानत्वान्निर्देशस्य मिथ्यात्वम्-अशुद्धदलिकखरूपं, "मिश्रं शुद्धाशुद्धदलिकखभावं, चशब्दः शेषौदयिकभेदसमुच्चये, अत एवोपसंहारमाह-'यावन्तो' यत्परिणामा औदयिकाः, भावा इति गम्यते, प्रकमादेतद्विषयो यः संयोगः 'सर्वः' निर्विशेषः सः 'बाह्यः परः तद्विषयत्वाद्, बाह्यसंयोग इति प्रकृतत्वात्सम्बन्धनसंयोगो ज्ञातव्य इति शेषः, इहापि बाह्यशब्देन प्राग्वदू बाह्यार्पित उक्तः। आह-भावा भवन्ति जीवस्यौदयिकः पारिणामिकश्चैव' इतिवचनादौदयिकोऽपि जीवभावत्वेन जीवार्पित एवेति कथं वाह्ये कर्मण्यर्पित इति, अत्रोच्यते, कर्मानुभवनमुदयः, अनुभवनं चानुभवितरि जीवेऽनुभूयमाने च कर्मणि स्थितं, तत्र यदाऽनुभवितरि जीवे विवक्ष्यते तदोदयः जीवगतो लेश्यादिपरिणामः प्रयोजनमस्येत्यौदयिका-कर्मणः फलप्रदानाभिमुख्यलक्षणो विपाक एव तमाश्रित्य कर्मणि बाह्येऽर्पितत्वमिहौदयिकभावस्योक्तं, यदा त्वनुभूयमानस्थतया विवक्ष्यते तदोदये-कर्मणः फलप्रदानाभिमुख्यलक्षणे भव औदयिको लेश्याकषायादिरूपो जीवपरिणामः, तदाश्रयणेन चोच्यते-भावा भव
न्ति जीवस्यौदयिक इत्यादि । इहापि चादेशान्तरेण वक्ष्यति-छविहो अत्तसंजोगो' त्ति 'सर्वः स' इति चैकवचनं || बाह्यसंयोगस्य विधीयमानतया प्राधान्यात् प्रधानानुयायित्वाच व्यवहाराणामिति गाथार्थः ॥ ५२ ॥ उभयार्पितसदम्बन्धनसंयोगमाह
१ यत्परिमाणा इति स्यात् , परिणामस्य परिमाणताऽर्थोऽत्र वा ।
in due
Armational
For Privale & Personal use only
arwww.jainelibrary.org