________________
उत्तराध्य. जो सन्निवाइओ खलु भावो उदएण वजिओ होइ । इक्कारससंजोगो एसो चिय अत्तसंजोगो ॥५१॥ अध्ययनम् बृहद्वृत्तिः
__ व्याख्या-यः सान्निपातिकः 'खलु' वाक्यालङ्कारे भावः 'उदयेन' औदयिकभावेन 'वर्जितः' रहितो भवति, एका
दश-एकादशसङ्ख्याः संयोगा-यादिमीलनात्मका यस्मिन् स एकादशसंयोगः, सूचकत्वात् सूत्रस्यैतद्विषयो यः ॥३४॥
संयोगः, एषोऽपि, न केवलमौपशमिकादिसंयोग इत्यपिशब्दार्थः, 'चः' पूरणे, 'आत्मसंयोगः' प्राग्वदात्मार्पितसंयोगः, एकादशसंयोगाश्चैवं भवन्ति-औपशमिकक्षायिकक्षायोपशमिकपारिणामिकानां चतुण्णी षट् द्विकसंयोगाश्चत्वारस्त्रिकसंयोगा एकश्चतुष्कसंयोगः, एते चमीलिता एकादशेति गाथार्थः॥५१॥ बाह्यार्पितसम्बधनसंयोगमाहलेसा कसायवेयण वेओ अन्नाणमिच्छ मीसं च । जावइया ओदइया सबो सो बाहिरो जोगो ॥५२॥ ___ व्याख्या-'लेश्या' लेश्याध्ययनेऽभिधास्यमानाः, कषायाश्च वक्ष्यमाणाः 'वेदना' च सातासातानुभवात्मिका है P कषायवेदनं, प्राकृतत्वाद्विन्दुलोपः, 'वेदः' पुंज्युभयाभिलाषाभिव्यङ्गयः, मिथ्यात्वोदयवतामसदध्यवसायात्मकं सत् ।
ज्ञानमप्यज्ञानम् , उक्तं हि-"जहं दुबयणमवयणं कुच्छियसीलं असीलमसईए। भण्णइ तह नाणंपि हु मिच्छदिहिस्स अन्नाणं ॥१॥" अत एव मिथ्यात्वोदयभाविवादस्यौदयिकत्वं. तहलिकेषु चार्पितत्वविवक्षया बाह्यार्पितत्वमिति १ यथा दुर्वचनमवचनं कुत्सितं शीलमशीलमसत्याः । भण्यते तथा ज्ञानमपि मिथ्यादृष्टेरज्ञानम् ॥ १॥
॥३४॥
lainelibrary.org
JainEducation
For Private & Personal Use Only