________________
इहाप्यादेशभेदाभिधानद्वारेण सम्बन्धनसंयोगस्य भेद उक्तो भवति, तत्र चानर्पितस्य प्ररूपणामात्रसत्त्वेऽप्यर्पितप्रतिपक्षत्वेनैवात्रोपादानम् , अतो वस्तुतस्तस्यासत्त्वान्न तेन कस्यचित्संयोगसम्भव इति न तद्भेदेन संयोगभेदः, अर्पितस्य त्वात्मपरोभयार्पितभेदतस्त्रैविध्यात् तद्भेदेन त्रिविधः सम्बन्धनसंयोग इति गाथार्थः ॥४९॥ तत्राऽऽत्माअर्पितसम्बन्धनसंयोगमाह
ओवसमिए य खइए खओवसमिए य पारिणामे अ। एसो चउविहो खलु नायवो अत्तसंजोगो ॥५०॥ हैव्याख्या-औपशमिके चस्य भिन्नक्रमत्वात् क्षायिके च क्षायोपशमिके च सर्वत्र सम्यक्त्वादिरूपे जीवस्य (ख)-18
भावे 'तथा' तेनागमोक्तप्रकारेण चस्यास्यापि भिन्नक्रमत्वात् परिणामे च जीवत्वाद्यात्मके च, सर्वत्र संयोग इति प्रक्रमः पठ्यते च-'खओवसमिए य पारिणामे य' ति स्पष्टमेव, 'एषः' अनन्तरोक्त औपशमिकादिसंयोगः 'चतर्विधः' चतष्प्रकारः, 'खलु' निश्चितं 'ज्ञातव्यः' अवबोद्धव्यः, "आत्मसंयोगः' इत्यात्मार्पितसम्बन्धनसंयोगः. अत्र ह्यात्मशब्देनार्पितभाव एव धर्मधर्मिणोः कथञ्चिदनन्यत्वादुक्तः, तथा च वृद्धाः-ऐए हि जीवमया भवंति. एएस भावेस जीवो नन्नो हवई' तदात्मक इत्यर्थः, औपशभिकादिभावानां च प्रागनादेशतोक्तावप्यत्रादेशत्वेनाभि|धानं सम्यक्त्वादिविशेषनिष्ठत्वेन विवक्षितत्वाद् भावसामान्यापेक्षया वेति गाथार्थः ॥५०॥ किञ्च
१ तह य परिणामे इति पाठमपेक्ष्येयं व्याख्या. २ एते हि जीवमया भवन्ति, एतेभ्यो भावेभ्यो जीवो नान्यो भवतीति.
Jain Education
tional
For Privale & Personal use only
W
ir library og