SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ मिति विशेषोऽपि मगधाद्यपेक्षया सामान्यमित्यादिरूपेण सर्वत्र सामान्यविशेषयोरनियतत्वख्यापनार्थ, भावे च भवति द्विविध इति भिन्नवाक्यताऽभिधानमनन्तरग्रन्थस्यैतद्विषयत्वख्यापनार्थमिति गाथार्थः ॥४७॥ अत्र क्षेत्रकालगतयोरादेशानादेशयोरल्पवक्तव्यत्वेन सम्प्रदायादपि सुज्ञानत्वात् तद्विषयः सम्बन्धनसंयोगोऽपि सुज्ञान एवेति| मत्वा भावगतादेशानादेशविषयं तमभिधित्सुरुक्तहेतोरेव प्रथममनादेशविषयं भेदत आहओदइअ ओवसमिए खइए य तहा खओवसमिए या परिणाम सन्निवाए छविहो होअणाएसो॥४८॥ __ व्याख्या-तत्रोदयः-शुभानां तीर्थकरनामादिप्रकृतीनाम् अशुभानां च मिथ्यात्वादीनां विपाकतोऽनुभवनं तेन निर्वृत्तः औदयिकः, कचित्तु 'उदयिए' त्ति पठ्यते तत्र च पदावसानवर्तिन एकारस्य गुरुत्वेऽपि विकल्पतो लघुत्वानुज्ञानात् नात्र छन्दोभङ्गः, उक्तं हि-"ईहियारा बिंदुजुया एओ सुद्धा पयावसाणंमि। रहवंजणसंजोए परंमि लहुणो विभासाए ॥१॥" विपाकप्रदेशानुभवरूपतया द्विभेदस्याप्युदयस्य विष्कम्भणमुपशमस्तेन निवृत्त औपशमिकः, क्षयः-कर्मणामत्यन्तोच्छेदः तेन निर्वृत्तः क्षायिकः स च, तथा क्षयश्च-अभाव उदयावस्थस्य उपशमश्च-विष्कम्भितोदयत्वं तदन्यस्य क्षयोपशमौ ताभ्यां निवृत्तःक्षायोपशमिकः स च, परीति-सर्वप्रकारं नमनं-जीवानामजीवानां १ कचिदत्र प्राक् 'आदिवो आएसंमि बहुविहे सरिसनाणचरणगए। सामित्तपच्चयाइंमि चेव किंचित्तओ वुच्छं ॥१॥ एषा गाथा दृश्यते, न च व्याख्याता सूचिता वेत्युपेक्षिता २ इहिकारौ बिन्दुयुक्तौ एओ (एकारौकारौ) शुद्धौ पदावसाने। रहव्यञ्जनसंयोगे परस्मिन् लघवो विभाषया ॥ १॥ सरक Sain Education For Private & Personal use only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy