________________
उत्तराध्य बृहद्वृत्तिः
रसाविति तस्य साधारणत्वान्न तेनेह व्यपदेशः पृथिव्यादिभिरिवाङ्करस्येति न दोपः, एवमुत्तरत्रापि, इति गाथार्थः । अध्ययनम् ॥ ४६॥ अमुमेव क्षेत्रकालभावविषयमभिधित्सुराहखेत्ते काले य तहा दुण्हवि दुविहो उ होइ संजोगो। भावंमि होइ दुविहो आएसे चेवऽणाएसे ॥४७॥
व्याख्या-क्षेत्रे' क्षेत्रविषयः, 'काले च' कालविषयश्च 'तथा' इति तेनागमप्रसिद्धप्रकारेण 'द्वयोरपि' इत्यनयोरेव क्षेत्रकालयोः 'द्विविधः' द्विभेदः, चशब्दो भावम्मि इत्यत्र योक्ष्यते, भवति संयोगः प्रक्रमात् सम्बन्धनसंयोगः, न च । क्षेत्रे काले इत्युक्ते द्वयोरपीति पौनरुक्त्याद दुष्ट, लोकेऽपि हस्तिन्यश्वे च द्वयोरपि राज्ञो दृष्टिरित्येवंविधप्रयोगदर्शनाद्, 'भावे च' भावविषयश्च, संयोग इति संटङ्कः, भवति द्विविधः, कथं क्षेत्रादिद्वैविध्यमित्याह-"आएसे चेवऽणाएसे' त्ति आङिति मर्यादया-विशेषरूपानतिक्रमात्मिकया दिश्यते-कथ्यत इति आदेशो-विशेषस्तस्मिन् , तदन्यस्त्वनादेशः-सामान्यं, पूर्वत्र चैवशब्दयोः समुच्चयावधारणार्थयोभिन्नक्रमत्वात्तस्मिंश्चैव, तत्र क्षेत्रविषयोऽना(देशे यथा-जम्बूद्वीपजोऽयम , आदेशे तु यथा-भारतोऽयं. कालविषयोऽनादेशे यथा-दौष्पमिकोऽयम्, आदेशे तु-बासन्तिकोऽयं, भावविषयोऽनादेशे भाववानयम् , आदेशे त्वौदयिकादिभाववानिति । सामान्यावगमपूर्वकत्वा- ॥३२॥ द्विशेषावगमस्यैवमुदाहियते. निर्यक्ती त विपर्ययाभिधानं जम्बद्वीप इति सामान्यमपि लोकापेक्षया विशेषो भरत
१ अस्मदुक्तानादेशादेशक्रमाद्विपर्ययेण आदेशानादेशेतिक्रमेण.
वापदभावाला-
दौत्रविमान,
Jain Education
library
For Private & Personal Use Only
anal