________________
Jain Educatio
तावपि वस्तुनि संशयादीनामन्यतमदेव स्यात्, तथा च पूज्याः – “संसय विवज्जओ वाऽणज्झवसाओऽवि वा जहिच्छाए । होजत्थे पडिवत्ती न वत्थुधम्मो जया णामं ॥ १ ॥ " स्थापनानय आह— स्थापनेत्याकारः, ततश्च - प्रमाणमिदमेवार्थस्याssकारमयतां प्रति । नामादि न विनाऽऽकारं, यतः केनापि वेद्यते ॥ १ ॥ तथाहि - नाम्नोर्थान्तरेऽपि वर्तयितुं शक्यत्वान्न तदुल्लेखेऽप्याकारावभासमन्तरेण नियतनीलाद्यर्थग्रहणमित्याकारग्रहण एव ग्रहात् सर्वस्य सिद्धमाकारमयत्वं, ततो ज्ञानज्ञेयाभिधानाभिधेयादिसकलमाकारारूषितमेव संव्यवहारावतारि, तद्विकलस्य खपुष्पस्येवासत्त्वात् उक्तं च पूज्यै:- "आंगारो चिय महसद्दवत्थुकिरियाफलाभिहाणाई । आगारमयं सवं जमणागारं तयं नत्थि ॥ १ ॥ ण पराणुमयं वत्थं आगाराभावओ खपुष्कं व । उवलंभववहाराभावाओ णाणगारं च ॥ २ ॥” द्रव्य - नय आह-यथा नामादि नाकारं, विना संवेद्यते तथा । नाऽऽकारोऽपि विना द्रव्यं, सर्व द्रव्यात्मकं ततः ॥ १ ॥ | तथाहि - द्रव्यमेव मृदादिनिखिलस्थास कोशकुशूल कुटकपालाद्याकारानुयायि वस्तु सत्, तस्यैव तत्तदाकारानुयायिनः सद्बोधविषयत्वात्, स्थासकोशाद्याकाराणां तु मृद्रव्यातिरेकिणां कदाचिदनुपलम्भात्, तच्चोत्पादादिसकल
१ संशयो विपर्ययो वाऽनध्यवसायोऽपि वा यदृच्छया । भवेदर्थे प्रतिपत्तिर्न वस्तुधर्मो यदा नाम ॥ १ ॥ २ आकार एव मतिशब्दवस्तुक्रियाफलाभिधानानि । आकारमयं सर्वं यदनाकारं तत् नास्ति ॥ १ ॥ न परानुमतं वस्तु आकाराभावतः खपुष्पवत् । उपलम्भव्यवहाराभावतो नानाकारं च ॥ २ ॥
national
For Private & Personal Use Only
jainelibrary.org