SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्ति: ॥ २१ ॥ 1 तान्नान उच्यते । स्थापनायाश्च तद्रूपक्रियातो बुद्धितोऽपि वा ॥ ८ ॥ तन्नामस्थापनाद्रव्यनिक्षेपैरनुवर्तितः । द्रव्या|र्थिकनयो भावनिक्षेपादितरः पुनः ॥ ९ ॥ तथा च महामतिः- “तित्थयरवयण संगहविसेसपत्थारमूलवागरणी । दवट्टिओवि पज्जवणओ य सेसा वियप्पा सिं ॥ १० ॥" तथा "नामंठवणादवियत्ति एस दवट्ठियस्स निक्खेवो । भावत्ति पज्जवट्ठिय परूवणा एस परमत्थो ॥ ११ ॥” यद्वा किन्नः किलैताभ्यां किन्त्वेष विधिराश्रितः । यद्याख्या वस्तुतत्त्वस्य वोधायैव विधीयते ॥१२॥ तच नामादिरूपेण, चतूरूपं व्यवस्थितम् । नामाद्ये कान्तवादानामयुक्तत्वेन | संस्थितेः ॥ १३ ॥ तथाहि - नामनय आह-यतो नाम विना नास्ति, वस्तुनो ग्रहणं ततः । नामैव तद्यथा कुम्भो, | मृदेवान्यो न वस्तुनः ॥ १४ ॥ तथाहि यत् प्रतीतावेव यस्य प्रतीतिस्तदेव तस्य स्वरूपं यथा मृप्रतीतावेव | प्रतीयमानस्य घटस्य मृदेव रूपं, नामप्रतीतावेव च प्रतीयते वस्तु, न च विनापि नाम निर्विकल्पकविज्ञानेन वस्तुप्रतीतिरस्तीति हेतोरसिद्धता, सर्वसंविदां वाग्ररूपत्वात्, तथा च भर्तृहरिः- “वाग्ररूपता चेद्रोधस्य, व्युत्क्रामेतेह | शाश्वती । न प्रकाशः प्रकाशेत, सा हि प्रत्यवमर्शिनी ॥ १ ॥ " यदि च नामरूपमेव वस्तु न स्यात् ततश्च तदवग१ तीर्थकरवचनसंग्रविशेषप्रस्तारमूलव्याकरणिनौ । द्रव्यार्थिकोऽपि पर्यायनयश्च शेषा विकल्पा अनयोः ॥ १ ॥ नाम स्थापना द्रव्यमित्येते द्रव्यार्थिकस्य निक्षेपाः । भाव इति पर्यायार्थिकप्ररूपणैप परमार्थः ॥ २ ॥ Jain Education International For Private & Personal Use Only अध्ययनम् ॥ २१ ॥ jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy