SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥२०॥ CCCCCCCIRCROSARORSCORok प्रक्रमेऽप्यनाचारवचनम् । अथवा एकमपीदं सूत्रमावृत्त्या 'श्वेतो धावती तिवदर्थद्वयाभिधायकं, ततश्चायमन्योऽर्थः । अध्ययनम् -संयोगेन-कपायादिसम्पर्कात्मकेनाप्यविप्रमुक्तः-अपरित्यक्तः, संयोगाविप्रमुक्तस्तस्य, ऋणमिव कालान्तरक्लेशानुभवहेतुतया ऋणम्-अष्टप्रकारं कर्म तत् करोतीति, कोऽर्थः ?-तथा तथा गुरुवचनविपरीतप्रवृत्तिभिरुपचिनोतीति ऋणकारस्तस्य, 'भिक्षोः' कषायादिवशतो जीववीर्यविकलस्य पौरुषघ्नीमेव भिक्षां तथाविधफलनिरपेक्षतया भ्रमणशीलस्य 'विनयं प्रादुष्करिष्यामीति "प्राकाश्यसम्भवे प्रादु"रिति वचनात् प्रादुःशब्दस्य सम्भवार्थस्यापि दर्शना|दुत्पादयिष्यामि, सम्भवति हीदमध्ययनमधीयानानां गुरुकर्मणामपि प्रायो विनीताविनीतगुणदोषविभावनातो ज्ञानादिविनयपरिणतिः, अथवा विरुद्धो नयो विनयोऽसदाचार इत्यर्थः, तं प्रादुष्करिष्यामि-प्रकटयिष्यामि, कस्य ? -'भिक्षोः' उक्तन्यायेन भिक्षणशीलस्य, सम्यग्-अविपरीतो योगः-समाधिः संयोगः, ततो विविधैः परीषहासहनगुरुनियोगासहिष्णुत्वालस्यादिभिः प्रकारैः प्रकर्षण मुक्तो विप्रमुक्तः तस्य, शेषं प्राग्वत् । एवं चाविनयप्रतिपादनस्यापि प्रतिज्ञातत्वात् सर्व सुस्थम् । अपरस्त्वाह-प्रतिज्ञातमपि विनयमभिधित्सोरप्रस्तुतम् , इदमपि बालप्रजल्पितं, यतः शास्त्रारम्भेऽभिधेयाद्यवश्यमभिधेयम् , अन्यथा प्रेक्षावप्रवृत्त्यसम्भवात् , तप्रदर्शनात्मकं चैतत् प्रतिज्ञानं, तथाहि ॥२०॥ विनयं प्रादुष्करिष्यामीत्युक्ते विनयोऽस्याध्ययनस्याभिधेयः, तत्रादुष्करणं फलं, तथा चेदमुपेयम्, उपायश्चास्य १ वैकत्र द्वयोः (२-२ ८५) इति भ्रमर्दिकर्मकत्वादत्र द्वितीया. Jain Educati o nal For Privale & Personal Use Only N ainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy