SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ भवति धर्मः श्रोतुः सर्वस्यैकान्तता हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति ॥ १॥” 'मे' मम विनयं विनतं वा प्रादुष्करिष्यत इति प्रक्रमः । उक्तः पदार्थस्तदभिधानात् सामासिकपदान्तर्गतः पदविग्रहश्च ( उक्त इति ), ततश्चालनावसरः, सा च सूत्रार्थगतदूषणात्मिका, “सुत्तगयमत्थविसयं व दूसणं चालणं मयं तस्स” इति । वचनात् , तत्र सूत्रचालना-संयोगस्य विषमुक्तक्रियां प्रति कर्तृत्वात् संयोगादिति कथं पञ्चमी ?, अर्थचालना च 'विनयं प्रादुष्करिष्यामीति प्रतिज्ञातम्, उत्तरत्र च 'आणाऽणिद्देसकरें' इत्यादिना 'खड्याहिं चवेडाहिं' इत्यादिना : |च विपर्ययप्रतिपादनमपि दृश्यते, इति कथं न प्रतिज्ञाक्षितिः ?, प्रत्यवस्थानं-शब्दार्थन्यायतः परोपन्यस्तदोषपरिहाररूपं, यत आह- "सहत्थन्नायाओ परिहारो पचवत्थाणं" तत्र च यद्यपि संयोगेन विमुच्यमानो भिक्षुः कर्मी तथापि कर्तृत्वेनात्र विवक्ष्यते, ततश्च तस्य तं विप्रमुञ्चतो विश्लेषोऽस्तीति विश्लेषक्रियायां संयोगस्य ध्रुवत्वेनापादा-४ नत्वान्याय्यैव पञ्चमी, अत एव विप्रमुक्त इत्यत्र कर्मकर्तुः कर्मवद्भावात् कर्मणि क्तोऽपि सिद्धो भवति इति न सूत्रदोषो, नाप्यर्थदोषः, यतो यद् यल्लक्षणं तत्तद्विपर्ययाभिधान एव तलक्षणमक्लेशेन ज्ञातुं शक्यमिति अत्र विनयाभिधानप्रतिज्ञानेऽप्यविनयाभिधानं, तथा च शय्यम्भवप्रणीताचारकथायामपि “वयछक्ककायछक्कमित्यादिनाऽऽचार १ सूत्रगतमर्थविषयं वा दूषणं चालनं मतं तस्य । २ संबन्धनसंयोगरूपं गुणमपेक्ष्येयं शङ्का, तस्य गुणत्वेन नाशात् स जहाति भिक्षु[मिति निर्धारणात् । ३ शब्दार्थन्यायतः परिहारः प्रत्यवस्थानम् । ४ भिक्षोः । ५ गुणं संबन्धनसंयोगरूपं । ६ मातापित्रादेः संयोगिनः । Jain Education a l For Private & Personal use only library
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy