SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. अध्ययनम् बृहद्वृत्तिः ॥१९॥ SASSEMINS विशेष्यमाह-'भिक्षोरिति,अत्र च पचनपाचनादिव्यापारोपरमतःसाधुर्भिक्षते तद्धर्मा चेत्यर्थे "सनाशंसभिक्ष उ"रिति (पा. ३-२-१६८)ताच्छीलिक उप्रत्ययः, अस्य च वर्तमानाधिकारविहितत्वेऽपि 'सज्ञाप्रकारास्ताच्छीलिका' इति भाष्यकारवचनाद्भिक्षुशब्दस्त्रिकालविषयो यतिपर्यायः सिद्धो भवति, शेषविवक्षायां च षष्ठी, अथवा|'अणगारस्सभिक्खुणो' त्ति अखेषु भिक्षुरखभिक्षुः-जात्याद्यनाजीवनादनात्मीकृतत्वेनानात्मीयानेव ऍहिणोऽन्नादि भिक्षत इतिकृत्वा, स च यतिरेव, ततोऽनगारश्चासावखभिक्षुश्च अनगाराखभिक्षुस्तस्य, किमित्याह-विशिष्टो विविधो वा नयो-नीतिर्विनयः-साधुजनासेवितः समाचारस्तं, विनमनं वा विनतं 'णीयं सेजं गई ठाणं' इत्याद्यागमात्, द्रव्यतो नीचैर्वृत्तिलक्षणं प्रहत्वं भावतश्च साध्वाचारं प्रति प्रवणत्वं 'प्रादुष्करिष्यामि' प्रकटयिष्यामि, कथमित्याहपूर्वस्य पश्चादनुपूर्व तस्य भाव इत्यर्थे “गुणवचनब्राह्मणादिभ्यः' (पा० ५-१-१२९ ) कर्मणि चेति ष्य, तस्य च पित्करणसामर्थ्यात् स्त्रीत्वे "षिद् गौरादिभ्यश्चे"ति (पा०४-१-४१) ङीष्यानुपूर्वी क्रमः परिपाटीतियावत् तया, द्वितीया तु 'छन्दोवत् सूत्राणी'ति न्यायतः छान्दसत्वे 'सुपां सुपो भवन्तीति वचनात् तृतीयार्थे, 'शृणुत' आकर्णयत श्रवणं प्रत्यवहिता भवत, यद्वा शृणु 'इहेति जगति जिनमते वा, व्याख्याद्वयेऽपि शिष्याभिमुखीकरणमित्यर्थः । अनेन च परामखमपि प्रतिवोधयतो व्याख्यातुर्धर्म एवेति ख्यापितं भवति, तथा च वाचक:-"न १ दुहादित्वाहिकर्मत्वेन गृहिणोऽन्नादेश्च कर्मत्वं । २ नीचैः शय्यां गतिं स्थानम् ॥ १॥ ३ यू स्याख्यौ नदी (१-४-३) सूत्रे भाष्ये । ॥१९॥ For Private & Personal use only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy