SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Jain Educati | एतद्विपरीतं चासंस्कृतमिति । सम्प्रति सूत्रमनुश्रियते तत्र चासंस्कृतं जीवितमिति जरोपनीतस्य न त्राणमिति च मा प्रमादीरित्युक्तेऽर्थस्यापि पुरुषार्थतया सकलैहिकामुष्मिकफलनिबन्धनतया च तदुपार्जनं प्रत्यप्रमादो विधेय इति केषाञ्चित्कदाशयः, यत आह- " धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते, धनैरेव पापात्पुनर्निस्तरन्ति । धनिभ्यो विशिष्टो न लोकेऽस्ति कश्चिद्धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥ १ ॥” इति, तन्मतमपाकर्तुमाह जे पावकम्मे हि धणं मणुस्सा, समाययंती अमतिं गहाय । पहाय ते पास पर्यट्टिए नरे, वेराणुबद्धा नरयं उवैति ॥ २ ॥ (सूत्रम् ) व्याख्या- 'य' इति ये केचनाविवक्षितखरूपाः 'पापकर्मभिः' इति पापोपादानहेतुभिरनुष्ठानैः 'धनं' द्रव्यं 'मनुष्याः' मनुजाः, तेषामेव प्रायस्तदर्थोपायप्रवर्त्तनादित्थमुक्तं, 'समाददते' स्वीकुर्वन्ति, 'अमतिम्' इति प्राग्वन्नञः कुत्सायामपि दर्शनात् कुमतिम् उक्तरूपां 'गहाय'त्ति गृहीत्वा सम्प्रधार्य, पठ्यते च- 'अमयं गहाये 'ति अशोभनं मतममतं - नास्तिकादिदर्शनम्, अथवा अमृतमिवामृतम् - आत्मनि परमानन्दोत्पादकतया तच्च प्रक्रमाद्धनं 'पहाय'त्ति १ दन्त्यसकारवान् स्यात्, स्याद्वा संज्ञापूर्वको विधिरनित्य इति न्यायमाश्रित्य नामिसंज्ञोद्देशेन गुणविधानात् गुणाभावात् आत्मनेपदे एवं धातुर्वा दिवादावात्मनेपदी कस्यचिन्मते स्यात् तुदादौ वा, कर्मणि प्रयोगात्तु न तत्कल्पनं । lational For Private & Personal Use Only lainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy