________________
तद्यथा - आलीढं प्रत्यालीढं वैशाखं मण्डलं समपदं च तत्रालीढं दक्षिणं पादमग्रतः कृत्वा वामपादं पृष्ठतः सार - यति, अन्तरं द्वयोरपि पादयोः पञ्च पदानि, एतद्विपरीतं तु प्रत्यालीढं, वैशाखं पुनः पाणी अभ्यन्तरतः कृत्वा समश्रेण्या व्यवस्थापयति, अग्रिमतलौ बहिर्भूतौ कार्यों, मण्डलं द्वावपि पादौ दक्षिणवामतोऽवसार्य ऊरू आकुञ्चति, यथा मण्डलं भवति, अन्तरं चत्वारि पादानि, समपदं पुनः स्थानं द्वावपि पादौ समौ नैरन्तर्येण स्थापयति, एतानि पञ्च स्थानान्यवद्धानि, शयनकरणं च षष्ठमिति गाथाक्षरार्थः ॥ २०३ ॥ उक्तं श्रुतकरणमधुना नोश्रुतकरणमाहनोसुयकरणं दुविहं गुणकरणं तह य जुंजणाकरणं । गुण तवसंजमजोगा जुंजण मणवायकाए य २०४
व्याख्या - इह च नोशब्दस्य सर्वनिषेधाभिधायित्वात् श्रुतकरणं यन्न भवति तन्नोश्रुतकरणं, तच द्वेधा-गुणकरणं 'तथा च ' तैनैव नाश्रुतत्वलक्षणेन प्रकारेण योजनाकरणं च एतत्खरूपमाह - 'गुण'त्ति प्रक्रमाद् गुणकरणं, किमित्याह - तपश्च संयमश्च तपःसंयमौ तयोरात्मगुणयोर्योगाः- तत्करणरूपा व्यापारास्तपः संयमयोगाः, किमुक्तं |भवति ? - तपःकरणम् - अनशनादि संयमकरणं च पञ्चाश्रवविरमणादि गुणकरणमुच्यते, गुणत्वं च तपःसंयमयोः कर्मनिर्जराहेतुत्वेनात्मोपकारित्वात्, 'जंजण' त्ति योजना करणं 'मणवयणकाए य'त्ति चशब्दोऽवधारणे, विषयसप्तमी चेयं, ततो मनोवाक्कायविषयमेव, तत्र मनोविषयं सत्यमनोयोजनाकरणादि चतुर्धा, वाग्विषयमपि सत्यवाग्योजनाकरणादि चतुधैव, कायविषयं त्वौदारिककाययोजनाकरणादि सप्तधा, ततश्च द्वाभ्यां चतुष्काभ्यां सप्तकेन च मीलि -
Jain Education International
For Private & Personal Use Only
ww.jainelibrary.org