________________
व्याख्या-आह-नित्यत्वात्क्षेत्रस्य करणं न संगच्छते तत्कथं क्षेत्रकरणसम्भवः ?, उच्यते, न विनाऽऽकाशेन 'क्रियते' निर्वय॑ते 'यदिति यस्मात् 'किञ्चिदपि' अल्पमपि द्यणुकस्कन्धादि, अतस्तत्प्राधान्याद् द्रव्यकरणमपि क्षेत्रकरणमुच्यते इत्युपस्कारः, ननु यद्याकाशेन विना न किञ्चित् क्रियते तदाऽऽकाशकरणतैवास्तु कथं क्षेत्रकरणता ?, उच्यते, 'क्षेत्रम्' इति क्षेत्रशब्दवाच्यमाकाशं, तथा च पर्यायशब्दत्वादनयोरित्थमभिधानमदुष्टमेवेति भावः, तच व्यञ्जनं-शब्दस्तस्य पर्यायः-अन्यथा च भवनं व्यञ्जनपर्यायः तमापन्नं-प्राप्त व्यञ्जनपर्यायापन्नम् , 'उच्छुकरणमाइयंति प्रक्रमान्मकारस्य चागमिकत्वादिक्षुक्षेत्रकरणादिकं 'बहुधा' बहुप्रकारम् , एकत्वेऽपि क्षेत्रस्येक्षुक्षेत्रकरणादिरूपेणाभिलापस्य बहुप्रकारत्वात् , तथा च सम्प्रदायः-वंजणपरियावन्नं णाम जं खेत्तंति अभिलप्पति तंजहा-18 उच्छखेत्तकरणं सालिखेत्तकरणं तिलखित्तकरणं एवमादि' अथवा यस्मिन् क्षेत्रे करणं क्रियते वय॑ते वा तत् क्षेत्रकरणमिति गाथार्थः ॥ १९६ ॥ इदानीं कालकरणमाहकालो जो जावइओ जं कीरइ जंमि जंमि कालंमि। ओहेण नामओ पुण हवंति इक्कारसकरणा॥१९७॥
व्याख्या-कालो 'यः' समयादिर्यावत्परिमाणः यत्करणनिष्पत्तावपेक्षाकारणत्वेन व्याप्रियते, किमुक्तं भवति?यस्य भोजनादेविता घटिकाद्वयादिना कालेन निष्पत्तिस्तस्य स एव कालः करणं, तस्यैव तत्र साधकतमत्वेन १ व्यजनपर्यायापन्नं नाम यत्क्षेत्रमित्यभिलप्यते, तद्यथा-इक्षुक्षेत्रकरणं शालिक्षेत्रकरणं तिलक्षेत्रकरणमेवमादि ।
national
T
Jain Educat
For Private&Personal Use Only
v.jainelibrary.org