________________
Jain Education In
करणानि - अवस्थान्तरापादनानि इन्द्रियकरणानि तानि च 'उपघातविशुद्धितः' उपघातात् विशुद्धेश्च भवन्ति, तत्रोपघाताद्विपाद्यभ्यवहारतो ऽन्धबधिरताद्यापादनानि विशुद्धितश्च ब्राह्मीसमीराञ्जनादिना स्पष्टताद्यापादनान्युत्तरकरणं भवति, पठ्यते च - 'इंदियकरणं च तह'ति अत्र चैकवचनान्ततया सर्व व्याख्येयमिति गाथार्थः ॥ १९१ ॥ | अथवाऽन्यथा करणमुच्यते—
| संघायणपरिसाडणउभयं तिसु. दोसु नत्थि संघाओ । कालंतराइ तिन्हं जहेव सुत्तंमि निद्दिट्टं ॥ १९२॥
व्याख्या - 'संघायणे 'ति संहन्यमानानां - संयुज्यमानानामौदारिका दिपुद्गलानां तैजसकार्मणपुद्गलैः सह यदात्मनस्तत्तत्पुद्गलग्रहणात्मिकासु तदनुकूलक्रियासु वर्त्तनात्मकं प्रयोजकत्वं सा सङ्घातना, तथा परिः समन्ताच्छटतां| पृथग्भवतामौदारिकादिपुद्गलानां यदात्मनस्तान्प्रति तत्तच्छरीरविमोक्षात्मकं प्रयोजकभवनं सा परिशाटना, उभाव|भिहिताववयवावस्येति उभयं - सङ्घातनापरिशाटनाकरणं । किमिदं त्रयमपि पञ्चस्वप्यौदारिकादिषु अथान्यथेत्याह| त्रिष्वाद्येषु, किमुक्तं भवति ? - औदारिकवैक्रियाहारकेषु, 'द्वयोः ' तैजसकार्म्मणयोः, किमित्याह - 'नास्ति' न विद्यते, | कोऽसौ ? - सङ्घातः, तदभावाच्च सङ्घातनापि नास्तीति भावः, सा हि प्रथमत उत्पद्यमानस्य जीवस्य तैलभृततप्ततापिकाप्र| क्षिप्तापूपवत् तैलसदृशानौदारिका दिपुद्गलानाददानस्यैवौदारिकादिष्वपि वर्ण्यते न च तैजसकार्मणयोः प्रथमत उपादा|नसम्भवः, अनादिसंहतिमत्वात्तयोः, परिशाटना तु शैलेशीचरमसमये, प्रतिसमयं सङ्घातना परिशाटनोभयं च सम्भ
For Private & Personal Use Only
inelibrary.org