SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥१९॥ नोत्सहन्त एतेष्विति विषयाः, यद्वाऽऽसेवनकाले मधुरत्वेन परिणामे चातिकटुकत्वेन विषस्योपमा यान्तीति विषयाः, असंस्कता. अत एवाविवेकिलोकाऽऽसेविता विवेकिलोकपरित्यक्ताश्च, तदुक्तम्-"आपातमात्रमधुरा विपाककटवो विषोषमा & विषयाः। अविवेकिजनाऽऽचरिता विवेकिजनवर्जिताः पापाः ॥१॥" कष्यतेऽस्मिन् प्राणी पुनः पुनरावृत्तिभावमनुभवति कषोपलकष्यमाणकनकवदिति कषः-संसारस्तस्मिन् आ-समन्तादयन्ते-गच्छन्त्येभिरसुमन्त इति कषायाः, यद्वा कषाया इव कषायाः, यथा हि तुवरिकादिकषायकलुषिते वाससि मजिष्ठादिरागः श्लिष्यति चिरं चावतिष्ठते तथैतत्कलुषित आत्मनि कर्म सम्बध्यते चिरतरस्थितिकं च जायते, तदायत्तत्वात् तस्थितेः, उक्तं हि शिवशर्मणा3“जोगा पयडिपएसं ठितिअणुभागं कसायओ कुणई"इत्यादि, एतदुष्टता च निरुक्त्यैव भाविता, 'णिद्द'त्ति नितरां द्रान्ति-गच्छन्ति कुत्सितामवस्थामिहामुत्र चानयेति निद्रा, तद्वशाद्धि प्रदीपनकादिषु विनाशमिहवानुभवन्ति, धर्मकार्येष्वपि शून्यमानसत्वान्न प्रवर्तन्ते, तथा चाह-"जांगरिया धम्मीणं अहमीणं च सुत्तया सेया। वच्छाहिवभगिणीए अकहिंसु जिणो जयंतीए ॥ १॥" विरूपा स्त्रीभक्तचौरजनपदविषयतयाऽसम्बद्धभाषितया च कथा विकथा, तत्प्रसक्तो हि परगुणदोषोदीरणादिभिः पापमेवोपार्जयति, अत एवाह वाचकः--"यावत् परगुणदोषपरिकीर्तने ॥१९॥ १ योगात् प्रकृतिप्रदेशौ स्थित्यनुभागौ कषायतः करोति । २ जाग्रत्ता धर्मिणामधर्मिणां च सुप्तता श्रेयसी। वत्साधिपभगिन्य अचकथत् जिनो जयन्त्यै ॥ १॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy