________________
HOME-LASSAGE -
FASH
॥ ॐ नमः ॥ उक्तं तृतीयमध्ययनम् , अधुना चतुर्थावसरः, तस्य चायमभिसम्बन्धः, इहानन्तराध्ययने चत्वारि मनुष्यत्वादीन्यानि दुर्लभान्युक्तानि, इह तु तत्प्राप्तावपि महते दोषाय प्रमादो महते च गुणायाप्रमाद इति मन्यमानः प्रमादाप्रमादौ हेयोपादेयतयाऽऽह । इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि प्राग्वद् व्यावर्णनीयानि तावद् यावन्नामनिष्पन्ने निक्षेपे प्रमादाप्रमादमिति नाम, ततश्च प्रमाद इत्यप्रमाद इति च निक्षेप्तव्यमित्युभयनिक्षेपप्रतिपिपादयिषयाऽऽह नियुक्तिकृत्
नामंठवणपमाओ दवे भावे य होइ नायवो । एमेव अप्पमाओ चउविहो होइ नायवो ॥ १७९॥ ___ व्याख्या-'णामंठवणपमाए'त्ति, प्रमादशब्द उभयत्र सम्बध्यते, ततश्च नामप्रमादः स्थापनाप्रमादः, 'दो'इति | द्रव्यप्रमादः 'भावे य'ति भावप्रमादश्च भवति ज्ञातव्यः, 'एवमेवेति नामस्थापनाद्रव्यभावभेदत एव अप्रमादश्चतु|विधो भवति ज्ञातव्य इति गाथार्थः ॥१७९॥ इह च नामस्थापने प्रतीते इत्यनादृत्य द्रव्यभावप्रमादावभिधित्सुराहमजं विसय कसाया निदा विगहा य पंचमी भणिया। इअपंचविहो एसो होइ पमाओ य अपमाओ १८०
व्याख्या--माद्यन्ति येन तत् मद्यं, यद्वशागम्यागम्यवाच्यावाच्यादिविभागं जनो न जानाति, अत एवाह"कार्याकार्ये न जानीते, वाच्यावाच्ये तथैव च । गम्यागम्ये च यन्मूढो, न पेयं मद्यमित्यतः॥१॥” विषीदन्ति-धर्मप्रति
CROScor
RECASSE
Jain Educati
o
nal
For Privale & Personal use only
desbrary.org