________________
5-%
व्यापृतं मनो भवति । तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥१॥" इह च चूर्णिकृतेन्द्रियाण्येव पञ्चमप्रमादतया : व्याख्यातानि, तत्र च विषयग्रहणेऽपि पुनरिन्द्रियग्रहणं विषयेष्वपीन्द्रियवशत एव प्रवर्तन्त इति तेषामेवातिदुष्टताख्यापक, महासामा अपि खेतद्वशादुपघातमाप्नुवन्ति, आह च वाचक-"इह चेन्द्रियप्रसक्ता निधनमुपजग्मुः, तद्यथा-गायः सत्यकि कर्द्धिगुणं प्राप्तोऽनेकशास्त्रकुशलोऽनेकविद्यावलसम्पन्नोऽपी"त्यादि । एते च तत्तत्पुद्गलोपचितद्रव्यरूपतया विवक्ष्यमाणा द्रव्यप्रमाद आत्मनि च रागद्वेषपरिणतिरूपतया विवक्षिता भावप्रमाद इति हृदयम् , अत एव न भावप्रमादः पृथगुक्तः । उपसंहारमाह-'इती'त्यनन्तरमुपदर्शितः पञ्चविधः-पञ्चप्रकारः 'एष' इति | | इहैवोच्यमानतया प्रत्यक्षत उपलभ्यमानो 'भवति' विद्यते प्रकर्षण माद्यन्त्यनेनेति प्रमादः अप्रमादश्च तदभावरूपः पञ्चविधो, भावस्य चैकत्वेऽपि प्रतिषेध्यापेक्षया पञ्चविधत्वमिति गाथार्थः ॥ १८० ॥ प्रस्तुतयोजनामाहपंचविहो अपमाओ इहमज्झयणमि अप्पमाओ यावण्णिज्जए उ जम्हा तेण पमायप्पमायंति ॥ १८१ ॥ ___ व्याख्या-पञ्चविधः चशब्दस्तद्गतभेदसूचकः प्रमादः 'इह'अस्मिन्नध्ययने अप्रमादश्च पञ्चविधो वयेते, तुशब्दोऽन्याध्ययनेभ्यो विशेष द्योतयति, यस्माद्धेतोस्तेन प्रमादाप्रमादमित्येतदुच्यत इति गाथार्थः ॥ १८१॥ इत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवति, तच्चेदम्
ESSAGARMSAX
Jain Education
For Privale & Personal use only
Jainelibrary.org