SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ व्याख्या-'क्षि निवासगत्योः' क्षियन्ति निवसन्त्यस्मिन्निति क्षेत्रं-ग्रामारामादि सेतुकेतूभयात्मकं वा, तथा वसहन्त्यस्मिन्निति वास्तु-खातोच्छितोभयात्मकं 'हिरण्यं सुवर्णम्, उपलक्षणत्वात् रूप्यादि च, 'पशवः' अश्वादयः, दास्यते-दीयते एभ्य इति दासाः-पोष्यवर्गरूपास्ते च पोरुसंति-सूत्रत्वात्पौरुषेयं च-पदातिसमूहः दासपौरुषेयं, 'चत्वारः' चतुःसङ्ख्याः, अत्र हि क्षेत्रं वास्त्विति चैको हिरण्यमिति द्वितीयः पशव इति तृतीयो दासपौरुषेयमिति चतुर्थः, एते किमित्याह-काम्यत्वात् कामाः-मनोज्ञशब्दादयः, तद्धेतवः स्कन्धाः पुद्गलसमूहाः ततः कामस्कन्धाः, है यत्र भवन्तीति गम्यते, प्राकृतत्वाच्च नपुंसकनिर्देशः, 'तत्र' तेषु कुलेषु 'से' इति स 'उपपद्यते' जायते । अनेन है चैकमङ्गमुक्तं, शेषाणि तु नवाङ्गान्याह-मित्राणि-सहपांशुक्रीडितादीनि सन्त्यस्येति मित्रवान् , ज्ञातयः-खजनाः 15 सन्त्यस्येति ज्ञातिमान् भवति, उचैः-लक्ष्म्यादिक्षयेऽपि पूज्यतया गोत्रं-कुलमस्येत्युञ्चैर्गोत्रः, चः समुच्चये, वर्णः-14 श्यामादिः स्निग्धत्वादिगुणैः प्रशस्योऽस्येति वर्णवान् , 'अल्पातकः' आतङ्कविरहितो नीरोग इत्यर्थः, महती प्रज्ञाऽस्येति महाप्रज्ञः-पण्डितः, 'अभिजातः' विनीतः, स हि सर्वजनाभिगमनीयो भवति, दुर्विनीतस्तु शेषगुणा|न्वितोऽपि न तथेति, अत एव च 'जसो'त्ति यशस्वी, तथा च सति 'बले'त्ति बली कार्यकरणं प्रति सामर्थ्यवान् , उभयत्र सूत्रत्वान्मत्वर्थीयलोपः, एकैकोऽपि हि मित्रत्वादिगुणस्तत्तत्कार्याभिनिवर्तनक्षमः, किं पुनरमी समुदिताः?, शरीरसामर्थ्याचेह बलीति ॥ १७-१८॥ तत्किमेवंविधगुणसम्पत्समन्वितं मानुषत्वमेव तत्फलमित्याह SASARANASA LARAKES in Education in For Privale & Personal use only Brinelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy