________________
उत्तराध्य.
बृहद्वृत्तिः
॥१८८॥
भोच्चा माणुस्सए भोए, अप्पडिरूवे अहाउयं। पुत्विं विसुद्धसद्धम्मे, केवलं बोहि बुझिया॥१९॥(सूत्रम्) | चतुरङ्गीया | व्याख्या-भुक्त्वा' आसेव्य 'मानुष्यकान्' मनुष्यसम्बन्धिनः भुज्यन्त इति भोगाः-मनोज्ञशब्दादयस्तान् , ध्ययनम् अविद्यमानं प्रतिरूपमतिप्रकर्षवत्त्वेनानन्यतुल्यमेषामित्यप्रतिरूपाः तान् , 'यथायुः' आयुषोऽनतिक्रमेण पूर्व न्मविशुद्धो निदानादिरहितत्वेन 'सद्धर्मः(1) शोभनो धर्मोऽस्येति विशुद्धसद्धर्मा, केवलत्वाच धर्मादनिच् केवला'दिति (पा०५-४-१२४ ) इत्यनिच भवति, 'केवलाम् ' अकलां 'बोधि' जिनप्रणीतधर्मप्राप्तिलक्षणां 'बुवा' अनुभूय प्राप्येतियावत् ॥ १९ ॥ ततोऽपि किमित्याहचउरंगदुल्लभं मच्चा, संजमं पडिवजिया। तवसाधुतकम्मंसे, सिद्धे भवति सासए ॥२०॥तिबेमि (सूत्रम्)
व्याख्या--चतुर्णामङ्गानां समाहारश्चतुरङ्गी तामभिहितखरूपां 'दुर्लभां' दुष्प्रापां 'मत्वा' ज्ञात्वा 'संयम' । सर्वसावद्ययोगविरतिरूपं 'प्रतिपद्य' आसेव्य, 'तपसा' बाह्येनान्तरेण च धुतम्-अपनीतं, कम्मंसित्ति-कामग्रन्थिकपरिभाषया सत्कर्मानेनेति धुतकर्माशः, तदपनयनाच बन्धादीनामप्यर्थतोऽपनयनमुक्तमेव, यद्वा धुताः कर्मणोऽशा-भागा येन स तथाविधः, किमित्याह-सिद्धो भवति, स च किमाजीविकमतपरिकल्पितसिद्धवत् ४ पुनरिहैति उत नेत्यत आह--'शाश्वतः' शश्वद्भवनात् , शश्वद्भवनं च पुनर्भवनिबन्धनकर्मबीजात्यन्तिकोच्छेदात् ,
तथा चाह-"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः। कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः॥१॥"
4I
Jain Education International
For Privale & Personal use only
www.jainelibrary.org