________________
विश्वं-जगद् विभ्रति-पूरयन्ति क्वचित्कदादिदुत्पत्त्या सर्वजगद्व्यापनेन विश्वभृतः, उक्तं च-“कत्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽपि । जम्मणमरणाबाहा जत्थ जिएहि न संपत्ता ॥१॥" इदमुक्तं भवति-अवाप्यापि मानुपत्वं खकृतविचित्रकर्मानुभावतः पृथग्रजातिभागिन्य एव भवन्ति, काः-'प्रजाः' जनसमूहरूपाः, तदनेन प्राप्तमानु| षत्वानामपि कर्मवशाद्विविधगतिगमनं मनुषत्वदुर्लभत्वे हेतुरुक्तः, यद्वा संसारे कर्माणि नानाविधानि कृत्वा पृथगिति भिन्नासु नानागोत्रासु-अनेककुलकोयुट्पलक्षितासु जातिषु-देवाद्युत्पत्तिरूपासु समापन्नाः-सम्प्राप्ता वर्तन्त | इति गम्यते, णेति प्राग्वत्, 'विश्रम्भिताः' सातविश्रम्भाः सत्यः प्रक्रमात्कर्मखेव तद्विपाकदारुणत्वापरिज्ञानात् काः ?-प्रजायन्ते इति प्रजाः-प्राणिन इति सम्बन्धः, तदनेन प्राणिनां विविधदेवादिभवभवनं मूलत एव मनुजत्वदुर्लभत्वे कारणमुक्तमिति सूत्रार्थः॥२॥ अमुमेवार्थ भावयितुमाहएगया देवलोएसु, नरएसुऽवि एगया। एगया आसुरे काये, आहाकम्मेहिं गच्छइ ॥३॥ (सूत्रम्)
व्याख्या-'एकदा' इत्येकस्मिन् शुभकर्मानुभवकाले दीव्यन्तीति देवाः तेषां लोकाः-उत्पत्तिस्थानानि देवगत्यादिपुण्यप्रकृत्युदयविषयतया लोक्यन्त इतिकृत्वा तेषु देवलोकेषु, नरान् कायन्ति-योग्यतयाऽऽह्वयन्तीति नरकाः तेषु रत्नप्रभादिषु नारकोत्पत्तिस्थानेषु, अपिशब्दस्य चार्थत्वात्तेषु च, 'एकदा' अशुभानुभवकाले, तथा 'एकदा' तथावि
१ नास्ति किल स प्रदेशो लोके वालाप्रकोटीमात्रोऽपि । जन्ममरणाबाधा यत्र जीवैर्न संप्राप्ताः ॥ १॥
Jain Education
Scional
For Privale & Personal use only
Aklainelibrary.org