________________
चतुरङ्गीया । ध्ययनम्
उत्तराध्य. बृहद्वृत्तिः ॥१८॥
नि 'दुर्लभानि' दुःखेन लभ्यन्त इतिकृत्वा दुष्प्रापाणि 'इह' अस्मिन्संसारे, कस्स ?-जायत इति जन्तुस्तस्य देहिन द इत्यर्थः, पठ्यते च-'देहिन' इति, कानि पुनस्तानि ?-मनसि शेते मानुषः, अथवा मनोरपत्यमिति वाक्ये
"मनोर्जातावयतौ पुक् च” (पा०४-१-१६१) इत्यत्रि प्रत्यये षुगागमे च मानुषस्तद्भावः मानुषत्वं-मनुजभावः, 'श्रवणं' श्रुतिः, सा च 'अर्थप्रकरणादिभ्यः सामान्यशब्दा अपि विशेषेऽवतिष्ठन्ते' इति न्यायाद्धर्मविषया, श्रद्धाऽपि तत एव धर्मविषया, 'संयमे' आश्रवविरमणाद्यात्मनि, चः समुच्चये भिन्नक्रमः, ततो विशेषेणेरयति-प्रवर्तयति आत्मानं तासु तासु क्रियाखिति वीर्य्य च-सामर्थ्यविशेष इति सूत्रार्थः ॥१॥ तत्र यथा मानुषत्वं दुर्लभं तथा दर्शयितुमाह
समावण्णाण संसारे, णाणागोत्तासु जाइसु। कम्मा णाणाविहा कटु, पुढो विस्संभिया पया ॥२॥(सूत्रम्) है। व्याख्या-'सम्' इति समन्तात् आपन्नाः-प्राप्ताः समापन्ना णं इति वाक्यालङ्कारे, केत्याह-संसारे, तत्रापि
क?-नाना इत्यनेकार्थः, गोत्रशब्दश्च नामपर्यायः, ततो नानागोत्रासु-अनेकाभिधानासु जायन्ते जन्तव आखिति जातयः-क्षत्रियाद्याः तासु, अथवा जननानि जातयः ततो जातिषु-क्षत्रियादिजन्मसु नाना-हीनमध्यमोत्तमभेदेनानकं गोत्रं यासु तास्तथा तासु, अत्र हेतुमाह-क्रियन्त इति कर्माणि-ज्ञानावरणीयादीनि 'नानाविधानि' अनेकप्रकाराणि 'कृत्वा' निवर्त्य 'पुढो'त्ति पृथग भेदेन, किमुक्तं भवति ?-एकैकशः, 'विस्संभिय'त्ति विन्दोरलाक्षणिकत्वाद्
॥१८॥
Jain Education
For Private & Personal use only
Rainelibrary.org