________________
ASACROSCORRESS
उहाए पन्नत्तं बोडियसिवभूइउत्तराहि इमं । मिच्छादसणमिणमो रहवीरपुरे समुप्पन्नं ॥१॥ बोडियसिवभूईओ बोडियलिंगस्स होइ उप्पत्ती । कोडिण्णकोट्टवीरा परंपराफासमुप्पन्ना ॥२॥
व्याख्या-'ऊहया' खवितर्कात्मिकया 'प्रज्ञप्तं' प्ररूपितं, बोटिकश्चासौ चारित्रविक लतया मुण्डमात्रत्वेन शिवभतिश्च बोटिकशिवभूतिः स चोत्तरा च तद्भगिनी बोटिकशिवभूत्युत्तरे ताभ्याम् 'इदम्' अनन्तरोक्तं, यत्रास्योत्पत्तिस्तदाह-मिथ्यादर्शनम् 'इणमोत्ति आर्षत्वादिदं रथवीरपुरे समुत्पन्नम् ॥ बोटिकशिवभूतेोटिकलिङ्गस्य भवत्युत्पत्तिः, पठ्यते च-'बोडियलिङ्गस्स आसि उप्पत्ती,' तत्र च कौण्डिन्यकोट्टवीरो परम्परा-अव्यवच्छिन्नशिप्यप्रशिष्यसंतानलक्षणा तस्याः स्पर्शो यत्र तत्परम्परास्पर्श यथा भवत्येवमुत्पन्नौ, अनेन कौण्डिन्यकोवीराभ्यां बोटिकसन्तानस्योत्पत्तिक्ता भवतीति गाथाद्वयार्थः ॥ १-२॥ इयता ग्रन्थेन श्रद्धादुर्लभत्वमुक्तम् , अस्थाश्च सम्यक्त्वरूपत्वात् सम्यक्त्वपूर्वकत्वाच संयमस्य तस्याप्यनेनैव दुर्लभत्वमुक्तमेवेति भावनीयं । तथा चत्वारीत्यङ्गमित्यस्य च व्याख्याने चतुरङ्गेभ्यो हितं तत्स्वरूपव्यावर्णनेन चतुरङ्गीयमिति व्युत्पत्तिः सुज्ञानैवेति नियुक्तिकृता नोपदर्शिता । गतो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चचत्तारि परमंगाणि, दुल्हाणिह जंतुणो। माणुसत्तं सुई सद्धा, संजमंमि य वीरियं ॥ १॥ (सूत्रम्)| व्याख्या-'चत्वारि' चतुःसङ्ख्यानि परमाणि च तानि प्रत्यासन्नोपकारित्वेन अङ्गानि च मुक्तिकारणत्वेन परमाङ्गा
उत्तराध्य.३१
For Privale & Personal use only
Mulinelibrary.org