SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ च तस्यानैकान्तिकमनन्तरमेवोक्तमिति किं तन्निषेधेन ?, अथ वस्त्वन्तरविधिस्तत्र वस्त्वन्तरं शक्तिरनागताद्धा वा ?, यदि शक्तिस्तत्र किं यावच्छक्तिस्तावन्मम प्रत्याख्यानम् अथ यावति विषये शक्तिस्तावतीति ?, प्रथमपक्षे शकनक्रियापरिमाणपरिमितत्वात् प्रत्याख्यानस्य परिमाणवत्त्वमेवोक्तं भवतीति खवचनविरोधः, प्रत्याख्यानानवस्था चैवं, शक्तेरनियतत्वात्, तथा चातीचारासत्त्वं तदसत्त्वे च प्रायश्चित्ताभावः, द्वितीयपक्षे तु प्राणवधाद्यन्यतरविरतावपि संयतत्वापत्तिः, शक्त्यपेक्षत्वात्तद्धेतुप्रत्याख्यानस्य, उक्तं च - " ऐत्तियमेत्ती सत्तित्ति णातियारो ण यावि पच्छित्तं । ण य सव्वव्ययनियमो एगेण य संजयत्तन्ति ॥ १ ॥" अथानागताद्धा तत्रापि किं भावः प्रत्याख्यानं व्यञ्जनं वा १, न तावद् व्यञ्जनं खप्नादावपि तदुच्चारणे प्रत्याख्यानप्रसङ्गात् प्रमादतः शक्तिवैकल्यतो वा व्यञ्जनस्खलने तदभावापत्तेश्च ततः प्रथमपक्ष एवावशिष्यते, तत्र च सदा सावद्यमहं न सेविष्ये इति तस्य भाव उत कदाचिदिति ?, यदि | आद्यपक्षस्तदा मृतस्यापि तत्सेवायामपरिपूर्णप्रतिज्ञत्वेन व्रतभङ्गप्रसङ्गः, तथा सिद्धानामपि संयतत्वापत्तिः, सकलानागताद्धाप्रत्याख्यानधारित्वात् । एवं च 'सिंद्धे नो चारित्ती नो अचारित्ती' इत्यागमविरोधः, अथ द्वितीयपक्षस्तत्र किं यथा भावस्तथा व्यञ्जनमथान्यथा ?, यदि यथा भावस्तथा व्यञ्जनम् एवं सति विज्ञातविषयादेरेव प्रत्याख्यान१ एतावन्मात्रा शक्तिरिति नातीचारो न चापि प्रायश्चित्तम् । न च सर्वत्रतनियम एकेनापि संयतत्वमिति ॥ १ ॥ २ सिद्धा नो चारित्रिणो नो अचारित्रिणः ॥ Jain Educationational For Private & Personal Use Only ainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy