________________
उत्तराध्य.
चतुरङ्गीया
ध्ययनम्
बृहद्धृत्तिः ॥१६॥
यात आगमसिद्धचास्य बहुबहुविधादिग्रहणं किं सामान्याशयाणां, तथा चपाणां व्यावृत्तिपः,
ACCORDAR
किच-यत्रेन्द्रियपञ्चकमपि सञ्चरन्मनोदुर्लक्षं, अत एव दीर्घा शुष्कां तिलशकुलिका भक्षयतो बुद्धस्य पञ्च ज्ञानानि समुत्पन्नानीति कैश्चिदुच्यते, तत्रैकेन्द्रियस्य देशान्मनः सञ्चरंल्लक्षिष्यत इति दुराशयम् , इह च सञ्चरणमुपयोगगमनम् , अन्यथा शरीरव्यापिनः तस्य सञ्चारायोगात् , अथात्रानुमानसिद्धः क्रम इति योगपद्याभावः, तथाहि-यत् क्रियावत् तत् क्रमेणैव देशान्तरस्कन्दि, यथाऽऽदित्यः, क्रियावच्च सूच्यादि, इदमपि समानमत्रापि, यो दूरदेशौ न तयोयुगपदेकस्य सञ्चारो यथा हिमवद्विन्ध्यशिखरयोदेवदत्तस्य, दूरदेशौ च शिरश्चरणगतत्वगिन्द्रियदेशावित्यनुमानेन मनसःक्रमसचारसिद्धेः, स्यादेतद्-आगमसिद्धमुपयोगयोगपद्यं, न च तद् युगपन्मनसः सञ्चारं विनेति न मनसः क्रमसञ्चारसाधकानुमानोत्थानम् , आगमसिद्धता चास्य बहुबहुविधादिग्राहित्वाभिधानेनावग्रहादीनामनेकग्रहणस्य तत्रोक्तत्वात् , तदभिधानाच युगपदनेकोपयोगताऽप्युक्तैवेति, नन्वत्रानेकग्रहणं किं सामान्यविशेषाणां ग्रहणमपेक्ष्य केवलविशेषाणां |वा ?, न तावदाद्यः पक्षो यतोऽनुवृत्तिव्यावृत्तिरूपेण विलक्षणत्वं सामान्यविशेषाणां, तथा चाह-'य एकत्र ग्रहण-| परिणामः स नान्यत्रे ति कथं युगपत्सामान्यविशेषग्रहणम् ?, अथ द्वितीयः पक्षः, उक्तं हि-"विशेषाणां व्यावृत्तिरूपेणाविलक्षणत्वात् युगपद्बहूनामपि ग्रहणम् , तन्न, विरुद्धत्वादस्य, तथाहि-विशेषाश्चाविलक्षणाश्चेति परस्परविरुद्धं वचः, अथ भिन्नेष्वपि विशेषेष्वभिन्नं सामान्यमिति तद्रूपेण तेषां ग्रहणम् , इदमस्मदिष्टमेव, उक्तं च-"उसिणेयं सीयेयं ण विभागेणोवओगद्गमिट्ट । होज्जा समदुगगहणं सामन्नं वेयणामेत्तं ॥१॥" न चैवमनेकग्रहणं युगपदनेकोपयो
१ उष्णेयं शीतेयं न विभागेनोपयोगद्वयमिष्टम् । भवेत् समकं द्विकग्रहणं सामान्यं वेदनामात्रम् ॥ १॥
॥१६६॥
Jain Educat
i onal
For Privale & Personal use only
atelibraryong