________________
सीयं, ताहे सो चिंतेति-जहा सुत्ते भणियं-एगा किरिया वेइजति-सीया उसिणा वा, अहं दो किरियातो वेएमि, तो दिदो किरिआओ एगसमएण वेइजंति, ताहे आयरियाण साहइ, तेहिं भणियं-मा अजो ! पण्णवेहि, णत्थि एयंज:
एगसमएण दो किरिआओ वेइजंति, तथाहि तवाशयः-तथा प्रतीयमानत्वात् तं श्वेततया यथा । योगपद्येन किं नेष्टमुपयोगद्वयं तथा?॥१॥ प्रयोगश्च--यद्यथा प्रतीयते तत्तथाऽस्ति, यथा श्वेतं श्वेततया, प्रतीयते च योगपद्येनोपयोगद्वयं, नन्वत्र योगपद्येनोपयोगद्वयप्रतीतिः किं क्रमानुपलक्षणमात्रेण यद्वैकत्रोपयुक्तस्यान्यत्राप्युपयोगनिश्चयेन ?, यदि क्रमानुपलक्षणमात्रेण, तदाऽनैकान्तिको हेतुः, उत्पलपत्रशतव्यतिभेदादिषु प्रतीयमानस्यापि योगपद्यस्याभावात् , अथ तत्र सूच्याः सूक्ष्मत्वेनाशुसञ्चारित्वेन च समयादिगत एव क्रमः, स च समयादिसौम्यान्न लक्ष्यत इति योगपद्याभिमानः, एवं सत्यत्रापि मनसोऽतीन्द्रियत्वेन सूक्ष्मत्वादत्यन्तास्थिरतयाऽऽशुसञ्चारित्वाच्च शिरश्चरणगतत्वगिन्द्रियदेशयोः सञ्चरणक्रमः समयादिसौम्यान लक्ष्यते, तत उपयोगयोगपद्याभिमान इत्यस्तु, उक्तं च-"सुहृमासुचलं चित्तं"ति, तथा "समैयादिसुहुमयातो मनसि जुगवंपि भिण्णकालंपि । उप्पलदलसयवेहं व जह व तमलायचति ॥१॥"
१शीतं, तदा स चिन्तयति-यथा सूत्रे भणितम्-एका क्रिया वेद्यते-शीता उष्णा वा, अहं द्वे क्रिये वेदयामि, ततो द्वे क्रिये एकसमयेन वेद्येते, तदा आचार्यान् कथयति, तैर्भणितं-मा आर्य ! प्रज्ञापय, नास्त्येतत् यत् एकसमयेन द्वे क्रिये वेद्यते । २ सूक्ष्ममाशुचलं चित्तमिति ।। ३ समयादिसौक्ष्म्यात् मन्यसे युगपदपि भिन्नकालमपि । उत्पलदलशतवेधमिव यथा वा तदलातचक्रमिति ॥ १॥
SCRENCircMAMMOCRArt
Jain Education
ional
For Privale & Personal Use Only
library.org