SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ यो गित्वाविनाभावि येन तदभिधानात्तदप्युक्तं भवेत् , तथा च पूज्याः-"बहुबहुविहाइगहणे णणूवओगबहुआ सुएऽभिहिया। तमणेगग्गहणं चिय उवओगाणेगया णत्थि ॥१॥” अथैकत्रोपयुक्तस्यान्यत्राप्युपयोगनिश्चयेनेति पक्षः, सोऽपि न, यस्माद्यद्यन्यत्रोपयुक्तमपि मनोऽन्यत्राप्युपयुज्यमानं निश्चीयेत तदा क्वचित् व्याक्षिप्तमनाः पुरः सन्निहितपदार्थान्तरेऽप्युपयोगं लक्षयेत् , न चैवं, तदुक्तम्-"अन्नविणिउत्तमन्नं विणितोगं लहति जइ मणो तेणं । हत्थिं ठियंपि पुरतो किमन्नचित्तो न लक्खेइ ? ॥१॥" ततश्च स्थितमेतत्-गवावहितचित्तस्य, नोपयोगो यथा गजे । शीतोपयुक्तहै चित्तस्य, नोपयोगस्तथाऽऽतपे ॥१॥प्रयोगश्च-य एकत्रावहितचित्तो न सोऽन्यस्य ग्राहको, यथा गवाहितचित्तो है हस्तिनः, शीतावहितचित्तश्च शीतवेदनाकाले जीवः, इत्थं संझ्युपयोगमाश्रित्योक्तं, सामान्येन तु-कारणं परिणाम्येकोपयुक्तनिजशक्तिकम् । तदैवाशक्तमन्यस्मिन्नपयुक्तं(योक्तुं) मृदादिवत्॥१॥प्रयोगश्च-यत्परिणामि कारणमेकत्रोपयुक्तशक्तिकं न तदैव तदन्यत्रोपयुज्यते, यथा घटोपयुक्ता मृत् शरावादिषु, शीतवेदनोपयुक्तश्च तत्काले जीवः, उक्तं च"उवओगमतो जीवो उवउजइ जेण जंमि तं कालं । सो तम्मओवओगो होइ जहिंदोवओगम्मि ॥१॥सो तदु १ बहुबहुविधादिप्रहणे ननूपयोगबहुता श्रुतेऽभिहिता । तदनेकग्रहणमेव उपयोगानेकता नास्ति ॥ १॥ २ अन्यविनियुक्तमन्यं विनियोगं लभते यदि मनस्तेन । हस्तिनं स्थितमपि पुरतः किमन्यचित्तो न लक्षयति ? ॥१॥ ३ उपयोगमयो जीव उपयुज्यते येन यस्मिन् तस्मिन् काले । स तन्मयोपयोगो भवति यथेन्द्रोपयोगे ॥ १ ॥ स तदु For Private & Personal use only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy