________________
सिधेवि पडिवन्ना - एच्चिरं कालं असंजतो वंदिओत्ति, ताहे अवत्तभावं भावेंति, जहा सर्व अवत्तं भणेजाह, संजतोऽवि वा देवोऽवि वा, मा मुसावाओ भवेज्जा असंजयनंदणं च जहा तुमं ममं ण पत्तियसि, जह संजतो ण वा ?, तुमंपि एवं भाणियचो, एवं संजती देवी वा, एवं विभासा । एवं ते असब्भावेणं अप्पाणं परं उभयं च बुग्गा| हेमाणा विहरंति । अनुशासितुमारब्धाश्च स्थविरैः – यथा देवानांप्रिया ! इदं युष्माकमाकूतं यस्मान्न शक्यते कर्त्तु, | कचिज्ज्ञानेन निश्चयः । तस्मादव्यक्तमेवास्तु, वस्तुतत्त्वाविनिश्चयात् ॥१॥ प्रयोगश्च यत् ज्ञानं न तन्निश्चयकारि, यथेदमाचार्यगोचरं ज्ञानं ज्ञानं चेदं यत्यादिविषयं वेदनम्, अनिश्चयकारित्वे च ज्ञानस्य निश्चयाधीनत्वात् वस्तुव्यक्तेरव्यक्तत्वसिद्धिः, ननु चेदमनुमानं ज्ञानमेव, ततश्चैतदपि निश्चयकारि न वा ?, यदि निश्चयकारि तर्हि यथाऽस्य ज्ञानत्वेऽपि | निश्चयकारिता तथा ज्ञानान्तराणामपीति विपर्ययसाधनात् विरुद्धो हेतुः, अथ न निश्चयकारि वृथाऽस्य प्रयोगः, स्व| साध्यनिश्चयाकरणात् शेषज्ञानानां चानिषिद्धैव निश्चयकारिता, किञ्च – यज्ज्ञानं न तन्निश्चयकारीति प्रतिज्ञायां सर्वथा निश्चयकारित्वाभावः साध्यते कथञ्चिद्वा ?, यदि सर्वथा तदा श्रुतज्ञानस्यापि ज्ञानत्वादनिश्चयकारित्वे स्वर्गा -
१ सर्वेऽपि प्रतिपन्नाः, इयच्चिरं कालमसंयतो वन्दित इति, तदाऽव्यक्तभावं भावयन्ति, यथा सर्वमव्यक्तं भणेत, संयतोऽपि वा देवोऽपि वा, मा मृषावादो भवेत् असंयतवन्दनं च यथा त्वं मां न प्रत्येषि-यथा संयतो न वा ?, त्वमप्येवं भणितव्यः, एवं संयती देवी वा, एवं विभाषा, एवं ते असद्भावेनात्मानं परमुभयं च व्युद्धायन्तो विहरन्ति
Jain Educationtional
For Private & Personal Use Only
*x*x*x
nelibrary.org