________________
चतुरङ्गीया ध्ययनम्
उत्तराध्य. पवर्गसाधकत्वेन तदुपदर्शितेषु तपःप्रभृतिष्वप्यनिश्चयात् कथं न शिरोलुञ्चनादेरानर्थक्यम् ?, अथ तस्य खयमनिश्चयबृहद्वृत्तिः ।
कारित्वेऽपि तद्वक्तरि तीर्थकृति प्रत्ययात्तस्यापि निश्चयकारितेति न दोषः, तर्हि किं न तत एवालयविहारादिदर्शनेन
यत्यादिष्वपि तद्भावनिश्चयाद्वन्दनाविधिः, उक्तं च-"जई जिणमयं पमाणं मुणित्ति ता बज्झकरणसंसुद्धं । देवपि ॥१६॥ वंदमाणो विसुद्धभावो विसुद्धो उ ॥१॥" सर्वथा निश्चयकारित्वाभावे च ज्ञानस्य प्रतिदिनोपयोगिनि भक्तपाना
दावपि भक्ष्याभक्ष्यादिविभागाभाव एव प्राप्तो, यत उक्तम्-'को जाणइ किं भत्तं किमतो किं पाणयं जलं मजं?। किमलावू माणिकं किं सप्पो चीवरं हारो?' ॥१॥ को जाणति किं सुद्धं किमसुद्धं किं सजीवमजीवं? किं भक्खं किमभकखं ? पत्तमभक्खं ततो सवं ॥२॥" अथ कथञ्चिदेव निश्चयकारित्वाभावः साध्यते, यतः प्रतिसमयमन्यान्यसूक्ष्मपरिणामरूपेण भक्तादि न निश्चेतुं शक्यं, स्थिरस्थूलरूपतया च निश्चीयत एवेति नोक्तदोषः, एवं सति यत्यादिष्वप्यान्तरपरिणामरूपेणानिश्चयो बहिर्वेषादिरूपेण तु निश्चय एवास्तु, अथ यत्यादिषु प्रकृताचार्यवत् अन्यथात्वमपि सम्भवति, एतदरिष्टाऽऽदिवशतो भक्तादिष्वपि समानम् , यदि च निश्चयनयेन निश्चयस्य कर्तुमशक्यत्वाद्ध| १ यदि जिनमतं प्रमाणं मुनिरिति ताबाह्यकरणसंशुद्धम् । देवमपि वन्दमानो विशुद्धभावो विशुद्ध एव ॥११॥ २ को जानाति किं भक्तं कृमयः किं जलं पानकं मद्यम् । किमलाबु माणिक्यं किं सर्पश्चीवरं हार: ? ॥१॥ को जानाति किं शुद्धं किमशुद्धं किं सजीवमजीवम् । किं भक्ष्य किमभक्ष्यं ? प्राप्तमभक्ष्यं ततः सर्वम् ॥ २॥
MINCREMARCHCARROCEROSCANAS
॥१६॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org