SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ मन्त्यत्वात् , तन्नैयत्यं च निरूपणायां पर्यन्तभवनात्, तन्नियमोऽपि विवक्षानियमादिति, एवं सति चक्रवत् पुनः । पुनरावर्त्तते इति, यदि च पूरणत्वमन्त्यस्य विशेषः तदा तच्छेषप्रदेशापेक्षमेवेत्यन्याविनाभावित्वे तदविनामावित्वमपि । बलादापततीति सकलप्रदेशाविनाभावित्वात्तदात्मकत्वसिद्धिः, नाप्युपकारित्वं विशेषः, यतस्तदन्येषामपि कथं न ?, किमात्मप्रदेशा एव न ते ?, यद्वाऽऽत्मप्रदेशत्वेऽप्येकका इति ?, न तावदाद्यः पक्षः, अशेषाणामात्मप्रदेशत्वेन वादिप्र तिवादिनोरिष्टत्वात् , अथात्मप्रदेशत्वेऽप्येकका इति, एकत्वं त्वन्मतान्त्यप्रदेशसहायकाभावात् परस्परसाहायकवि६ रहतो वा?, यदि त्वन्मतान्त्यप्रदेशसहायकाभावात् शेषप्रदेशानामनुपकारित्वं, त्वन्मतस्यान्त्यस्यापि तत्साहायका सत्त्वात् तदस्तु, युक्तं च बहूनामुपकारित्वम् , एकस्य तु तदभावो, यदुक्तम्-"जुत्तो य तदुवयारो देसूणे ण उ पएसमेत्तंमि । जह तंतूणंमि पडे पडोवयारो न तंतुमि ॥१॥" नापि परस्परसहायकासत्त्वात् , यतस्तत्किं त्वत्कल्पितान्त्यप्रदेशतो न्यूनत्वे तदभावे का?, यदि न्यूनत्वे तत्किं शक्तितोऽवगाहनातो वा ?,न तावच्छक्तितः, एकपटतन्तूनामिवैकात्मप्रदेशानां तन्यूनत्वायोगात् , नाप्यवगाहनातः, सर्वेषामप्यमीषामेकैकाकाशप्रदेशावगाहित्वेन तुल्यत्वात् , तदभावपक्षे चान्त्यप्रदेशस्येव शेषप्रदेशानामप्यात्मोपकारित्वं सिद्धमेव, आगमाभिहितत्वं च विशेषकमुच्यमानं तदन्यतामेव सूचयति, यतः स्फुटमेवागमवचनं “कसिणे पडिपुण्णे लोगागासपएसतुल्लपएसे जीवत्ति वत्तवं सिय" ति, ततश्च १ युक्तश्च तदुपचारो देशोने न तु प्रदेशमात्रे । यथा तन्तूने पटे पटोपचारो न तन्तौ ॥ १ ॥ Jain Education cional For Privale & Personal use only Yllainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy