________________
उत्तराध्य.
बृहद्वृत्तिः
॥ १५८ ॥
स्थविरैरभाणि - भद्र ! भवतोऽयमाशयः - यथा संस्थान एवास्ति, घटस्तेन तदात्मकः । तदन्त्यदेश एवास्ति, जीवस्तेन | तदात्मकः ॥ १ ॥ प्रयोगश्च यस्मिन्नेव सति यद्भवति तत्तदात्मकं, यथा संस्थान एव सति भवन् घटस्तदात्मकः, अन्त्यदेश एव च सति भवत्यात्मा, अत्रासिद्धो हेतुः, तथाहि — कथमात्मनोऽन्त्यप्रदेशे एव सति भावः ?, अथ शेषप्रदेशेषु सत्सु अप्यसौ नास्तीति, तत्किमस्य शेषप्रदेशानां च कश्चिद्विशेषोऽस्ति न वा ?, नास्ति चेत्किं न शेषप्रदेशभावेऽप्यस्य सद्भावः, अथास्ति चेत्, स किं पूरणत्व १ मुपकारित्व २ मागमाभिहितत्वं ३ वा १, यदि पूरणत्वं तत्किं वस्तुतो | विवक्षातो वा ? वस्तुतथेत्किमस्यैव पूरणत्वं ? न शेषप्रदेशानाम्, अथास्यैव अन्त्यत्वाद्, अन्त्यत्वमप्यात्मप्रदेशापेक्षं तदवष्टब्धाकाशप्रदेशापेक्षं वा ?, न तावदात्मप्रदेशापेक्षम्, आत्मप्रदेशानां कथञ्चित्पाथोवदावर्त्तमानत्वेनानवस्थिता - नामयमन्त्योऽनन्त्यश्चायमिति विभागाभावात्, ये पुनरष्टौ स्थिराः ते मध्यवर्त्तिन एव, नापि तदवष्टब्धाकाशप्रदेशापेक्षं, तेषामशेषदिक्षु पर्यन्तसम्भवेनैकस्यैवान्त्यत्वाभावात्, देशान्तरसंचारे चानवस्थितत्वात् न च वस्तुतोऽन्त्यस्यैव पूरणत्वं, द्वितीयादीनामपि पूरणत्वाद्, अन्यथा तथा तथा व्यपदेशानुपपत्तेः, विवक्षातोऽपि न, यतोऽसौ खस्याशेषपुरुषाणां वा ?, यद्यशेषपुरुषाणां नेयं नियता, न हि सर्व एव भवदभिमतमेकं पूरणमाचक्षते, नापि खस्य, यतोऽस्या अपि कुतो नियतत्वम् ?, अथान्त्यत्वाद् एतदपि कुतो नियतम् ?, 'एगे भन्ते ! जीवप्पएसे जीवत्ति वत्तवं सिया ! इत्यादिनिरूपणायां पर्यन्तभवनात्, तन्नियमोऽपि कुतो ?, विवक्षानियमात्, एवं सति चक्रकाख्यो दोषः, तथाहि - विवक्षानैयत्य
Jain Education International
For Private & Personal Use Only
चतुरङ्गीया ध्ययनम्
३
॥ १५८॥
www.jainelibrary.org